This page has not been fully proofread.

४१६ भट्टि काव्ये - चतुर्थे तिरन्त-काण्डे लक्षण रूपे चतुर्थो वर्गः,
 
प्रालोठन्तेत्यादि – तेन क्षताः केचिद्भूमौ ग्रालोठन्त । '७४९। लुठ लोठने ।'
भुवीतस्ततो व्यभिद्यन्त व्यनीयन्त हताः सन्त इतस्ततो नीताः । कर्मणि लङ् ।
परितः समन्ताद्रक्तमस्रवन् मुक्तवन्तः । पर्यश्राम्यन् खिन्नाः । अतृप्यन् पिपा.
सिताः । दिवादित्वात् इयन् । केचिदम्रियन्त । '२५३८ । म्रियतेर्लुङ् लिङो
।१।३।६१।' इति तङ् ॥
 
१३६५– सौमित्रिरा॑कुलस् तस्मिन् ब्रह्मऽस्त्रं सर्व-रक्षसाम् ॥
 
निधनाया ऽऽजुहूषत् तं व्यष्टभ्राद् रघु-नन्दनः १९
सौमित्रिरित्यादि- तस्मिन् इन्द्रजिति तथाभूते सति सौमित्रिराकुलो व्यस्त.
चित्तः सर्वरक्षसां निधनाय ब्रह्मास्त्रमाजुहूपत् आह्वातुमैच्छत् । '२४२७ अभ्य-
स्तस्य च ।६।१।३३।' इति अभ्यस्ताकारस्य ह्वयतेः प्रागेव द्विवचनात् सम्प्रसा.
रणम् । तं च सौमित्रिं रघुनन्दनो रामः व्यष्टनात् निवारितवान् 'मा भूद्विीप-
णस्यापि नाशः' इति । '२५५५ । स्तम्भु-स्तुभु । ३।१।८२ ।' इत्यादिना प्रत्ययः ।
'२२७२ । स्तम्भेः ।८।३॥६७ ।' इति मूर्धन्यः ॥
 
१३६६ - ततो माया-मयीं सीतां घ्नन् खङ्गेन वियद्-गतः ॥
अदृश्यते॑न्द्रजिद्, वाक्यमंवदत् तं मरुत्-सुतः २०
 
S
 
तत इत्यादि — ततोऽनन्तरं इन्द्रजित् वियद्गतः आकाशगतः सीतां माया-
मयीं मायानिर्मितां खड्गेन घ्नन् व्यापादयन्नदृश्यत दृष्टः । कर्मणि लङ् । तथाभूतं
राक्षसं मरुत्सुतो हनुमान् वाक्यमवदत् भाषितवान् ॥
 
J
 
१३६७ - 'मा ऽपरानोदियं किंचिदंभ्रश्यत् पत्युर॑न्तिकात् ॥
सीता राक्षस ! मा स्मैनां निगृह्णाः पाप ! दुःखिताम् २१
 
-
 
माऽपराप्नोदित्यादि – हे पाप ! राक्षस ! सीता पत्युरन्तिकादश्यत् अप-
गता । इयं भवतो नापरानोत् नापरादा। '१३५३ । राध - साध संसिद्धौ ।' इति
स्वादौ । तस्मादेनां दुःखितां मा स्म निगृह्णाः मा वधीः । '२२४० । स्मोत्तरे लक्ष्
च ।३।३।१७६।' इति वर्तमाने लडू ॥
 
१३६८ - 'पीडा करमं- मित्राणां कर्तव्यमिति शऋजित् ॥
 
अब्रवीत्, खड्ग-कृष्टश् च तस्या मूर्धानम॑च्छिनत्. २२
पीडाकरमित्यादि - इयमपराद्धा भवतु न वा सर्वथा यदमित्राणां पीडा-
करं तदवश्यं कर्तव्यमिति शऋजिदब्रवीत् उक्तवान् । खङ्गकृष्टश्च कृष्टः खङ्गो येन ।
'प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवतः तस्या मूर्धानमच्छिनत् छिन्नवान् । तिपो
हलङयादिलोपः । दकारस्य चर्वम् ॥
 
-
 
१३६९ - 'यत् कृते ऽरीन् व्यगृह्णीम, समुद्रमंतराम च ॥
सा हते॑ ति वदन् राममु॑पातिष्ठन् मरुत्सुतः ॥२३॥