This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'रावण-वधो' न.न सप्तदशः सर्गः-
--
 
४१५
 
आस्यन्नित्यादि – प्लवङ्गता अपि वृशानास्यत् क्षितवन्तः । '१२८५। असु
क्षेपणे' । तथा भूधरैः पर्वतैरथुन्न् हृतवन्तः 'अधूर्वन्' इति पाठान्तरम् ।
 
तत्र '२२६५। उपधायां च ॥२।२८॥ इति दीर्घः । क्रोधान्मुष्टिभिरहिंसन्
ताडितवन्तः । दशनैर्द्वन्तैरदशन् खादितवन्तः । '२३९६ । दंश-सञ्ज-स्वर्धा शपि
।६।४।२५।' इत्यनुनासिकलोपः ॥
 
१३६० - प्रादुन्वन् जानुभिस् तूर्णम॑तुद॑स् तल-कूपरैः ॥
 
प्राहिण्वन्नरि-मुक्तानि शस्त्राणि विविधानि च ॥१४॥
प्रादुन्वन्नित्यादि — जानुभिस्तूर्णं प्रादुन्वन् पीडितवन्तः '१३३६॥ ढुटु उप-
तापे ।' स्वादिः । तलकूर्परैः हस्ततलैः प्रकोष्टैश्वातुदन् व्यथितवन्तः । अरिमि
कानि विविधानि यानि शस्त्राणि तानि ग्राहिण्वन् प्रहितवन्तः ॥
 
-
 
१३६१ - अतृणेद् शऋ- जिच् शत्रून॑भ्भ्राम्यच् च समन्ततः ॥
अध्वनच् च महा घोरं, न च कंचन नाऽदुनोत्. १५
अतृणेडित्यादि - ततः शऋजिदिन्द्रजित शत्रूनतृणेद हिंसितवान् । तृहे:
श्चम् । तस्य '२५४५ ॥ तृण ह इम् ।७।३।९२१' हलुङयादिलोपः । हकारस्य
ढत्वजश्त्वचर्त्वानि । समन्ततश्चाभ्राम्यत् भ्रान्तवान् । महाघोरं च भीषणं स्वनं
अध्वनत् नादितवान् । न च कंचन नादुनोत् कंचिदपि न नोपतापितवान्
अपि तु सर्वानपि पीडितवानित्यर्थः ॥
 
a
 
१३६२ - नाऽजानन् सन्दधानं तं, धनुर् नैक्षन्त विभ्रतम् ॥
नैषून॑चेतन्न॑स्यन्तं, हतास् तेना ऽविदुर् द्विषः ॥१६॥
नाजाननित्यादि – धनुषि शरं सन्दधानमारोपयन्तमिन्द्रजितं नाजानन् न
ज्ञातवन्तः । धनुर्बिभ्रतं नैक्षन्त धनुर्धारयन्तं न दृष्टवन्तः । इपून् शरानस्यन्तं
क्षिप्यन्तं नाचेतनू हस्तलाघवात् न ज्ञातवन्तः । '३९ । चिती संज्ञाने' । '१३४॥
ङमो हस्त्रात्- ।८।३।३२।' इति ङमुद्र । तेन हताः सन्तो द्विपः अविदुः ज्ञात-
वन्तः पूर्वोकम् । '२२२६ । सिजभ्यस्त-विदिभ्यश्च ।३।४।१०९।' इति झेर्जुस् ॥
१३६३ - अशृ॒ण्वन्न॑न्यतः शब्दं प्रपलायन्त चा ऽन्यतः ॥
आक्रन्दम॑न्यतोऽकुर्व॑स् तेना ऽहन्यन्त चाऽन्यतः १७
अशृण्वन्नित्यादि – अन्यतः अन्यस्मिन् प्रदेशे केचिद् द्विषः शब्दमट-
ण्वन् । '२३८६। श्रुवः शृ च ।३।११७१४॥ इति भावः प्रत्ययश्च । अन्यत्र
स्थिताः प्रपलायन्त पलायिताः । अन्यतोऽन्यत्र प्रदेशे स्थिताः आक्रन्दं अकुर्वन्
रोदनं कृतवन्तः । अन्यतोऽन्यत्र तेनेन्द्रजिता अहन्यन्त व्यापादिताः । कर्मणि
लङ् । सर्वत्राद्यादित्वात्तसिः ॥
 
१३६४ - प्रालोठन्त, व्यभिद्यन्त, परितो रक्तम॑स्रवन्, ॥
 
पर्यश्राम्यन्नतृप्यंश् च क्षतास् तेना ऽम्रियन्त च १८