This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'रावण वधो' नाम सप्तदशः सर्गः- ४१३
 
न्यश्यन्नित्यादि – अभीष्टानि यथानुभावितानि शस्त्राणि न्यश्यन् तेजित-
वन्तः । '१२२० । शो तनूकरणे' '२५१०। ओतः श्यनि ।७।३।७१॥ इत्योका-
रलोपः । वर्मभिश्च कवचैः समनह्यन् संनद्धाः । शरीराण्यावृतवन्त इत्यर्थः ।
सुयानानि शोभनयानानि अध्यासत आरूढाः । १५४२। अधिशी - ११॥४॥४६॥'
इति कर्मसंज्ञा । तथा द्विषद्भ्योऽशपन् आक्रुष्टवन्तः 'पापाः क्व यास्यथ' इति ।
८५७२ । श्लाघ-हुङ्-।१।१।३४।' इत्यादिना सम्प्रदानसंज्ञा ॥
 
१३५१ - अपूजयंश चतुर्-व, विमानार्चस् तथा ऽस्तुवन् ॥
समालिपत शऋऽरिर् यानं चाऽभ्यलषद् वरम् ॥५॥
 
अपूजयन्नित्यादि–चतुर्वक्रं ब्रह्माणमपूजयन् अर्चितवन्तः । विप्रानार्चन्
दाननमस्कारादिना पूजितवन्तः । तथा अस्तुवन् परस्परं स्तुतवन्तः । शकारिश्व
इन्द्रजित समालिपत समालिप्तवान् । यानं वरमुत्कृष्टमभ्यलपत् अभीष्टवान्
'२३२१॥ वा भ्राश –।३।१।७० ।' इत्यादिना इयनो विकल्पितत्वात् पक्षे शप् ॥
 

 
१३५२–आमुञ्चद् वर्म॑ रऽऽढ्यम॑बघ्नात् खगमु॑ज्ज्वलम् ॥
अध्यास्त स्यन्दनं घोरं, प्रावर्तत ततः पुरः ॥ ६॥
 
-
 
आमुञ्चदित्यादि - रत्नाढ्यं रत्नप्रत्युप्तं वर्म कवचमामुञ्चत् शरीर आमुक्त-
वान् । पिनद्धवानित्यर्थः । खङ्गं चोज्वलमबध्नात् कक्षापार्श्वाचितं कृतवान् । घोरं
भीषणं स्यन्दनमध्यास्त आरूढः । ततो ऽनन्तरं पुरः पुरतः प्रावर्तत प्रवृत्तः ॥
 
१३५३ - आनन् भेरीर् महा-स्वानाः,
 
3
 
कबूंश चा ऽप्यधमन् शुभान् ॥
अताडयन् मृदङ्गांश च,
पेराश चा ऽपूरयन् कलाः ॥ ७ ॥
 
आघ्नन्नित्यादि - तस्मात् प्रवृत्ताः महास्वानाः महानादाः । ३२३९। स्वन-
हसोर्वा ।३॥३।६२।' इत्यप् । भेरीः आघ्नन् ताडितवन्तः । वादका इत्यर्थात् ।
शुभान् सुस्वरान् कम्बून् शङ्खानधमन् शब्दितवन्तः । '२३६०। पात्रा-
।७।३।७८ ।' इत्यादिना धमादेशः । मृदङ्गांश्चाताडयन् आहतवन्तः । '१६९३॥
तड आघाते' इति चुरादिः ॥
 
,
 
१३५४ - अस्तुवन् बन्दिनः, शब्दान॑न्योन्यं चौदभावयन् ॥
अनदन् सिंहनादांश च माद्रेकत हय-द्विपम् ॥८॥
 
3
 
अस्तुवन्नित्यादि-बन्दिनः स्तुतिपाठका अस्तुवन् 'जय जीव' इत्यादिना
स्तुतिं कृतवन्तः । अन्योन्यं अन्यस्य अन्यस्य च शब्दान् सांग्रामिकनामानि उद-
भावयन् उद्घाटितवन्तः सैनिका इत्यर्थात् । सिंहनादांश्चानदन् शब्दितवन्तः ।