This page has not been fully proofread.

४१२ भट्टि काव्ये - चतुर्थे तिङन्त-काण्डे लक्षण-रूपे चतुर्थो वर्गः,
सप्तदशः सर्गः-
इतः प्रभृति लङमधिकृत्य विलसितमाह --तत्र भूतानद्यतने लङ् ततोऽन्यत्र
दर्शयिष्यति ---
 
१३४७ - आशासत ततः शान्तिम॑स्नु॑र॒ग्नीनेहावयन् ॥
विप्रार्नवाचयन् योधाः, प्राकुर्वन् मङ्गलानि च ॥१॥
 
आशासतेत्यादि- ततः प्रतिज्ञानन्तरं योधाः इन्द्रजित्सम्बन्धिन इत्यर्थात्
उपद्रवपरिहारार्थ शान्तिमाशासत अभीष्टवन्तः । १०९२ । आङः शासु इच्छायाम्'
इत्यनुदात्तेत् । '२२५८ । आत्मनेपदेष्वनतः ।७।१।५।' इत्यदादेशः । शान्ति च
दर्शयन्नाह – अस्नुः स्नाताः । '११२६ । ष्णा शौचे' । आत इत्यधिकृत्य । '२४६३
लङ: शाकटायनस्यैव । ३ । ४।१११।' इति झेर्जुस्। '२२१४। उस्यपदान्तात् । ६।१।९६।'
इति पररूपम् । अनीनहावयन् अग्निकर्म कारितवन्तः । विप्रानवाचयन् स्वस्ति
वाचनं कारितवन्तः । मङ्गलानि मङ्गलयुक्तानि कर्माणि कृतवन्तः ॥
१३४८ - अपूजयन् कुल- ज्येष्ठानु॑पागूहन्त वालकान् ॥
 
स्त्रीः समावर्धयन् साऽस्राः, कार्याणि प्रादिशंस् तथा २
 
-
 
अपूजयन्नित्यादि — कुलज्येष्ठान् वृद्धानपूजयन् पूजितवन्तः पादपतनादिना ।
बालकानुपागृहन्त आश्लिष्टवन्तः । गतानां भविष्यतीति सास्राः स्त्रीः योषितः ।
 
'३०२॥ वाऽम्-शसोः ।६।४।८०।' इतीयङभावपक्षे रूपम् । समावर्धयन् ताम्बू-
लादिना संवर्धितवन्तः । 'प्रातिपदिकाद्धात्वर्थे' इति णिच् । तथा कार्याणि गृह.
कार्याणि प्रादिशन् निर्दिष्टवन्तः । 'इदमिदं कार्यम्' इति ॥
 
१३४९ - आच्छादयन्, व्यलिम्पंश् च,
प्राश्नन्न॑थ सुरा॒ऽऽमिषम् ॥
प्रापिवन् मधु माध्वीकं
 
भक्ष्यांश चा SSदन् यथेप्सितान् ॥ ३ ॥
 
आच्छादयन्नित्यादि - आच्छादयन् वस्त्राणि पिनद्धवन्तः । '१८३४। छद
संवरणे' चुरादिः । व्यलिम्पंश्च समालिप्तवन्तः । '१७२७ । लिप उपदेहे' । '२५४२।शे
मुचादीनाम् ।७।११५९।' इति नुम् । '१४० । न श्छव्यप्रशान् ।८।३।७।' इति रुत्वम् ।
पूर्वस्यानुनासिकः । अथानन्तरं सुरामिषं प्राश्नन् अभ्यवहृतवन्तः । मधु माध्वीकं
मध्वासवं प्रापिबन् सुष्टु पीतवन्तः । भक्ष्यांश्च खण्डपायसादीन् यथेप्सितानादन्
भक्षितवन्तः । अडित्यनुवृत्तौ '२४२६ । अदः सर्वेपाम् । ७।२।१०० ।' इत्यडागमः ॥
. १३५० - म्यश्यन् शस्त्राण्य॑भीष्टानि, समनह्यंश् च वर्मभिः ॥
अध्यासत सु-यागानि, द्विषद्भ्यश् चा ऽशपंस् तथा ४