This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'रावण-विलापो' नाम षोडशः सर्गः - ४११
 
ज्ञायिष्यन्त इत्यादि - एते च द्विषां गणाः शत्रुसंधाः वीरंमन्याः अद्य मया
ज्ञायिष्यन्ते परिछेत्स्यन्ते याहशा इति । कर्मणि लृट् । चिण्वदि । वनौकस
कपीनां गात्रैः [ कृत्तैः ] छिन्नैरद्य क्षितिं गृहिष्यामि ॥
 
१३४६ - आरोक्ष्यामि युगान्त- वारिद-घटा-
संघट्ट - धीर ध्वनिं
निर्यास्यन् रथर्मुच्छ्रित ध्वज-धनु:-
खड्ग-प्रभा-भासुरम् ॥
 
श्रोष्यस्य॑द्य विकीर्ण-वृक्ण-विमुख-
व्यापन्न- शत्रौ रणे
 
तृप्तांश छोणित - शोण-भीषणमुखान्
ऋव्या॒ऽशिनः क्रोशतः ॥ ४२ ॥
 
3
 
इति भट्टि-काव्ये तिङन्त-काण्डे ऌडू - विलसितो
नाम षोडशः सर्गः ॥
 
आरोक्ष्यामीत्यादि — अतोऽहं रथमारोक्ष्यामि निर्यास्यन् इतो निर्गच्छन् ।
आरोक्ष्यामीति क्रियायां क्रियार्थायामुपपदे निर्यास्यन्निति '२१९३ । ऌट् शेषे
च ।३।३।१३।' इति चकारा । कीदृशं रथम् । युगान्ते प्रलयकाले या वारिद-
घटास्तासां यः संघट्टः परस्परसंमर्द: तस्येव धीरो गम्भीरो ध्वनिर्यस्य रथस्य ।
उच्छ्रिता ध्वजाः धनूंषि च यत्र । खड्गप्रभाभिश्व भासनशीलो यः । पश्चाद्विशे-
षणसमासः । उच्छ्रितानां वा ध्वजादीनां प्रभाभिर्भासुर इति योज्यम् । विकीर्णा
इतस्तो विक्षिप्ता वृक्णाः छिन्नाः छिन्नमस्तकाः विमुखाः पराङ्मुखा व्यापत्न्ना मृताः
शत्रवो यस्मिन् रणे। क्रव्याशिनः शृगालादीन् क्रोशतः फूत्कुर्वतः अद्य श्रोष्यसि ।
कीदृशान् । तृप्तान् शोणितमांसोपभोगात् । शोणितेन शोणानि लोहितानि तत एव
भीषणानि भयंकराणि मुखानि येषामिति । वृश्चेरोदितो निष्ठानत्वस्यासिद्धत्वात् चोः
कुत्वे वृक्ण इति ॥
 
इति श्री-जयमङ्गलाऽऽख्यया व्याख्यया समलंकृते श्री भट्टिकाव्ये
चतुर्थे तिङन्त-काण्डे लक्षण-रूपे तृतीयः परिच्छेदः (वर्गः )
तथा लक्ष्य-रूपे कथानके 'रावण-विलापो' नाम
षोडशः सर्गः ॥ १६ ॥
 
१ – पद्येऽस्मिन् वृत्तं शार्दूलविक्रीडितम् । तल्लक्षणम् – 'सूर्यांश्चैर्म-स-जस्-त-ताः सगुरवः
शार्दूलविक्रीडितम् ।' इति वृत्तरत्नाकरे भट्टकेदारः ।