This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'रावण- विलापो' नाम षोडशः सर्गः - ४०९
युग्मम् ३३-३४-
१३३७–प्राङ् मुहूर्तात् प्रभातेऽहं भविष्यामि ध्रुवं सुखी ॥
 
आगामिनि, ततः काले यो द्वितीयः क्षणोऽपरः ॥
प्रागित्यादि – योऽयमागामी प्रभातकालः मुहूर्तद्वयसम्मि॒ितः तस्मि॑िस्त॒स्येति
षष्टीसप्तम्योरभेदात् । यो द्वितीयो मुहूर्तः तस्मात् प्राकू प्रथमे मुहूर्ते अहमवश्यं
सुखी भविष्यामि । तदानीं हतशत्रुत्वात् । ततः प्रभातादागामी यः कालः
क्षणद्वयसंमितः तस्मिन्नागामिनि काले यो द्वितीयः तस्माद्यदपरः क्षणः पूर्वः तत्रेति
वक्ष्यमाणेन सम्बन्धः ॥
 
1
 
१३३८ - तत्र जेतुं गमिष्यामि त्रिदशेन्द्रं सहाऽमरम् ॥
 
,
 
3
 
ततः परेण भूयो ऽपि लङ्कामे॑ष्याम्य॑मत्सरः ॥३४॥
तत्रेत्यादि-
[-तत्र क्षणे त्रिदशेन्द्रं सहामरं देवैः सहितं जेतुं द्रुतं गमिष्यामि ।
प्राङ् मुहूर्तात् सुखी भविष्यामि । क्षणाद्यदपरं तत्र जेतुं गमिष्यामीति '२७९५ ।
कालविभागे चानहोरात्राणाम् ।३।३।१३७।' इति अनद्यतनवत् प्रत्ययप्रतिषेधे
लृट् । तत्र हि '२७९३ । नानद्यतनवत् १३।३॥३५।' इति 'भविष्यतिमर्यादाव-
चनेऽवरस्मिन्' इति चानुवर्तते । तत्र जेतुं कालमर्यादाविभागे सति योऽवर
आद्यप्रविभागः तत्र भविष्यति काले अनद्यतनवत्प्रत्ययविधिर्न भवति । ततो
 
लट्प्रतिषेधालुडेव भवति । ततः परेणेति यस्मिन्नागामिनि काले शक्रं जेतुं गमि-
प्यामि तत्र द्वितीयो यः क्षणस्तस्मात् परेणोपरिष्टात्तं शक्रं जिवा भूयोऽपि लङ्कामे-
प्यामि । आङ्पूर्वस्येणो रूपम् । अमत्सरो विगतक्रोधः सन् । ८१७९३ । परस्मिन्
विभाषा ।३।३।१३८।' इत्यनेन विभाषालुद्रप्रतिषेधाल्लृट् । तत्र हि कालविभागे
सति भविष्यति काले परस्मिन् विभाषा अनद्यतनवव्प्रत्ययविधिर्न भवतीत्युक्तम् ॥
१३३९ - तमेवं वादिनं मूढमि॑न्द्रजित् समुपागतः ॥
 
"
 
'युयुत्सिष्ये ऽहमित्येवं वदन् रिपु-भयंकरः ॥ ३५॥
तमित्यादि – तं रावणं मूढत्वादेववादिनं एवंभाषणशीलं इन्द्रजित रिपोर्भयं-
·करः समुपागतः । युयुत्सिष्येऽहं योद्धुमिच्छां करिष्यामीति ब्रुवन् ॥
केन सह योद्धुमिच्छामीति चेदाह -
१३४० -ना ऽभिज्ञा ते महाराज !,
जेष्याव: शऋ- पालितम् ॥
दृप्त-देव-गुणाssकीर्ण-
मा॑वां सह सुरा॒ऽऽलयम् ॥ ३६ ॥
नाभिशेत्यादि — हे महाराज ! ते तव नाभिज्ञा स्मृतिः सुरालयं शक्रेण
पालितं हसैश्च देवगणैराकीर्णं व्याप्तम् । आवां द्वावपि सह संभूय जेष्यावः जित-
चन्तौ । '२७७३ । अभिज्ञावचने लृट् ।३।२।११२॥' तत्र 'भूतानद्यतने' इति वर्तते
 
भ० का० ३५