This page has not been fully proofread.

४०८ भट्टि काव्ये - चतुर्थे तिङन्त-काण्डे लक्षण-रूपे तृतीयो वर्गः,
 
मानुष इत्यादि - मामेवं दुर्जयं मानुषो नाम पत्कापी पादाभ्यां गमनशील:
यदातिः सन् । '९९२। हिम- काषि-हतिषु च । ६।३।५१२४॥ इति पादस्य पदादेशः ।
पुरुषाशिनां रक्षसां राजानं दिव्यास्त्ररथतया दुर्जेयं दुरभिभवतीयं योधयिष्यति ॥
एवं बहुधा विलय जातामर्पः पुनराह-
१३३३ –सन्नत्स्याय॑थवा योद्धुं, न कोप्ये सत्त्व-हीन-वत्,
अद्य तर्त्स्यन्ति मांसाऽदा, भू: पास्यत्य॑रि-शोणितम्,
सन्नत्स्यामीत्यादि —–सत्त्वहीनवत् सत्त्वेन हीन इव न कोप्ये न रोदिमि
'११११५। कु शब्दे' । योद्धुं सन्नत्स्यामि सन्नाहं करिष्ये ऽहमिति । अत्र किंवृत्ते.
प्यम लिडपवादो लट् । '४४०। नहो धः ॥२।३४॥ १२ । खरिच
।८।४।५५।' इति चर्लम् । ततश्चाद्यास्मिन्नहनि मांसादाः क्रव्यादाः तन्ति तृप्ता
भविष्यन्ति । '२९७७ । अदोऽनन्ने ।३।२।६८ ।' इति विटि प्राप्ते वासरूपविधिना
अणपि भवति । भूश्च हतानामरीणां शोणितं पास्यति । '२८०८। शेषे लुट्
१३।३।१५१॥' ॥
 
11
 
१३३४ – आकर्श्यामि यशः, शत्रून॑पनेप्यामि कर्मणा,
अनुभाविष्यते शोको मैथिल्याऽद्य पति- क्षयात्. ३० ॥
सर्वयोद्धृणां यश आकर्यामि
 
आकर्ध्यामीत्यादि
 
आहरिष्यामि । शत्रूंश्च
 
कर्मणा युद्धाख्येनापनेष्यामि न्यूनयिष्यामि । अद्य पतिक्षयात्पति विनाशात्
शोको मैथिल्या सीतया अनुभाविष्यते संवेदयिष्यते । कर्मणि लृट् चिण्वदिट् ॥
१३३५ - मन्तूयिष्यति यक्षेन्द्रो, वल्गूयिष्यति नो यमः, 11
ग्लास्यन्त्य - पति पुत्राश च त्रने वानर - योषितः ॥ ३१ ॥
-
 
organ
 
11
 
मन्तूयिप्यतीत्यादि – यक्षेन्द्रो धनदः दाशरथिमापनं श्रुत्वा मन्तूयि-
ध्यति दुर्मना भविष्यति । यमच न वल्गृयिष्यति हृष्टमना न भविष्यति । मन्तु-
वल्गुशब्दाभ्यां । '२६७८ कण्वादिभ्यो यक् ।३।१।१७।' तदन्तात् लट् । वने
वानरयोषितः अपतिपुत्राः सत्यः ग्लास्यन्ति ग्लानिं यास्यन्ति ॥
 
१३३६ - सुखं स्वप्स्यन्ति रक्षांसि,
भ्रमिष्यन्ति च निर्भयम्, 11
 
न विक्रोक्ष्यन्ति राक्षस्यो,
 
,
 
नरांश चा उत्स्यन्ति हर्षिताः ॥ ३२ ॥
 
-
 
-
 
सुखमित्यादि - रक्षांसि चैतानि सुखं स्वप्स्यन्ति निर्भयं च भ्रमिष्यन्ति ।
राक्षस्यश्च न विक्रोक्ष्यन्ति न क्रन्दिष्यन्ति । '९१३ । कुश आह्वाने रोदने च' ।
सत्यो नरानत्यन्ति भक्षयिष्यन्ति ॥