2023-02-15 17:22:55 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य-रूपे कथानके 'रावण-विलापो' नाम पोडशः सर्गः- ४०७
१३२७ - ना ऽनुरोत्स्ये जगलू-लक्ष्मी, घटिव्ये जीवितुं न वा ॥
न रंस्ये विषयैः शून्ये भवने वान्धवैरहम् ॥ २३ ॥
नानुरोत्स्य इत्यादि – जगलक्ष्मी नानुरोत्स्ये न कामयिष्ये । अनो रुधि:
कामे । जीवितुं वा न घटिप्ये प्रयत्नं न करिष्यामि । तस्माद्भवने वान्धवैः शून्ये
विषयैः शब्दादिभिर्न रंस्ये न क्रीडां करिष्ये ॥
●
१३२८ - मोदिध्ये कस्य सौख्ये ऽहं, को मे मोदिष्यते सुखे ॥
आदेयाः किंकृते भोगाः कुम्भकर्ण ! त्वया विना. २४
—
मोदिष्य इत्यादि - हे कुम्भकर्ण ! त्वया बिना कस्य सौख्ये अहं मोदिप्ये
हर्षिप्ये । न कस्यचित् । मम वा सुखे सति को मोदिष्यते हृष्टो भविष्यति । न
कश्चिदपि । किंनिमित्तं परभोगा आदेयाः आदातव्याः ॥
तदेव दर्शयन्नाह -
१३२९ - याः सुहृत्सु विपन्नेषु मार्मुपैष्यन्ति संपदः, ॥
ताः किं मन्यु क्षतता॒ऽऽभोगा न विपत्सु विपत्तयः २५
य इत्यादि – सुहृत्सु त्रिग्धेषु विपन्नेषु याः सम्पदो विभूतयः समुपैष्यन्ति
निप्पत्स्यन्ते ताः मन्युक्षताभोगाः शोकैः खण्डिताभोगाः किं विपत्सु न विपत्तयः
क्षतक्षारसंस्थानीया भवन्तीति ॥
-
१३३० - 'विनङ्क्ष्यति पुरी क्षिप्रं, तूर्णमेष्यन्ति वानराः ॥
अ-सन्धित्सोस् तवै' त्यैतद् विभीषण-सुभाषितम्. २६
—
विनङ्क्ष्यतीत्यादि – असन्धिसोः रामेण सन्धानमनिच्छोः क्षिप्रमेषा पुरी
लङ्का विनङ्क्ष्यति । '२५१७ । मस्जि नशो:- ।७।१।६०।' इति नुम् । ततः तूर्णं
वानरास्तां समेष्यन्ति । उभयत्रापि ' २७९१ । क्षिप्रवचने लट् ।३।३।१३३॥'
तदेतद्विभीषणभाषितं सर्वमुपपन्नम् । धर्म निर्णीय तेनोकं 'सन्धानमेवास्तु परैः '
इत्यादिना ॥
१३३१ - 'अर्थेन संभृता राज्ञा न भाषिष्यामहे वयम् ॥
-
॥
संयोत्स्यामह,' इत्यैतत् प्रहस्तेन च भाषितम् ॥२७॥
अर्थेनेत्यादि — राज्ञा वयमर्थेन भृताः ततो न भाषिष्यामहे किमत्र युक्त-
मिति एतव्प्रहस्तेन भाषितं तच्च तथैव सम्पादितम् । स्मशब्दोऽत्र निपातः ।
यद्यपीदृशं मन्ननिर्णये प्रहस्तेन नोकं 'सन्धानमेवास्तु परैः' इत्यादिना, तथापि
विभीषणवचनादनुमीयते तेनाप्ययमर्थोऽभ्युपगत इति रावण एवमाह । तथाच
विभीषणवचनं 'युद्धाय राज्ञा सुभृतैः' इत्यादि ।
१३३२ - मानुषो नाम पत्काषी राजानं पुरुषाऽशिनाम् ॥
योधयिष्यति संग्रामे दिव्याऽस्त्र - रथ- दुर्जयम् ॥२८॥