2023-02-15 17:21:44 by ambuda-bot
This page has not been fully proofread.
१२
भट्टि काव्ये -- प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे प्रथमो वर्गः,
विद्वानु॑पानेष्ट च तान् स्व-काले
यतिरं॑ वशिष्ठो यमनां वरिष्ठः ॥
·
-
आर्चीदित्यादि – तेषु जातेपु द्विजातीन्दे जाती येषामिति तान्त्राह्मणक्षत्रिय-
वैश्यान्परमार्थविन्द्वान् । विन्दन्तीति विन्दाः । १५२६ । विद्ऌ लाभे' इत्य-
स्मात् '२९००१ अनुपसर्गात्-१३।१।१३८ ।' इत्यादिना शः । मुचादित्वान्नुम् । पर-
मार्थस्य विन्दाल्लाभिन इति कर्मणि षष्ठी । तस्याः 'कृद्योगा च पष्टी समस्यत
इति वक्तव्यम्' इति समासः । तानाचत्स्रगादिभिः पूजितवान् । '२१३।
अर्च पूजायाम्' इत्यस्माल्लुङ तिप् इट् सिचो लोपः ॥ भूतगणान्राक्षसादि-
गणान् । उढ़ेजयानुत्कम्पान् । तस्मिन्नेव सूत्र उत्पूर्व एजिर्ण्यन्तो निर्दिष्टः ।
तस्मादुदेजयतीति शः । तान्यपेधीदुत्सादितवान् । पिधेः '२२६८ । नेटि ७१२
।४।' इति हलन्तलक्षणायाः प्रतिषेधः ॥ विद्वान्पौरोहित्यकर्मणि कुशलः ।
उपानेष्ट च तान्रामादीन् । तेषामुपनयनाढिक्रियां चकार । ' २७०९ । संमानन
-।१।३।३६।' इत्यादिनाचार्यकरणे तङ् । स्त्रकाले इति 'गर्भादेकादशे वर्षे
जातन्य गर्नैकादशे' इत्यादिना वचनेन उपनयनकाल उक्तः । यमनियमेषु यतत
इति यतिः । 'सर्वधातुभ्य इन्' इति इन् । 'अहिंसा सत्यमस्तेयं ब्रह्मचर्य मक-
ल्मपम् । इति पञ्च यमा येषां सन्तीति यमिनः स्मृताः । तेषां वरिष्ठ उत्त-
मः । '२०१६ । प्रिय-स्थिर । ६।४।१५७।' इत्यादिनोरुशब्दस्य वरादेशो महत्प-
र्यायस्य । वशिष्टः ॥
१६ - वेदोऽङ्गवांस्तैरखिलोऽध्यगाय,
शस्त्रायुपायंसत जिंवराणि ॥
ते भिन्न-वृत्तीन्यपि मानसानि
समं जनानां गुणिनोऽध्यवात्सुः ॥
,
वेद इत्यादि — 'शिक्षा कल्पो व्याकरणं छन्दोविवृतिर्निरुक्तं ज्योतिषं चेति
षडङ्गानि शास्त्राणि तानि विद्यन्ते यस्य वेदस्येत्यङ्गवान् । तैरुपनीतै रामादिभिः ।
अखिलो निःशेषो वेदोऽध्यगायि । अधीत इत्यर्थः । इङोऽधिपूर्वात्कर्मणि लुङि
'२४६० । विभाषा लुइ-लुङोः ।२।४।१०।' इति गाङादेशः । चिण युक् तलुक् ।
शस्त्राणि धनुरादीनि जित्वराणि जयशीलानि । '३१५३ । इण्-नश्-जि-1३।२।
१–'७५१। ये निर्जितेन्द्रिय-ग्रामा यतिनो यतयश् च ॥ इति ना० अ० । २ - वश
इन्द्रियनिग्रहो येषां तेषु प्राधान्येन तिष्ठति यः स वशिष्ठः । ३ – 'यतिनां वरिष्ठ '
इत्यपि कचित् पाठः । ४ – '३१४३ । इण् - नशू-जि-सर्ति भ्य: कंप् (वर) ।३।२।१६३ । इत्वरः
इत्वरी नश्वरः जित्वरः सत्वरः । इति वै० म० । ८४२ । 'जेता जिष्णुश च जिव्वरः ॥
इति ना० अ० ।