This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'रावण-विलापो' नाम षोडशः सर्गः- ४०५
 
हनिष्यामि रिपूंस् तूर्णं,
 
न जीविष्यामि दुःखितः ॥ १३ ॥
 
मरिप्यामीत्यादि – यदि मम तनया हताः तदा मरिष्यामि शत्रून् वा
विजेष्ये । '२५३८ । म्रियतेलुङ् लिङोः - ।१।३।६१।' इति नियमात्तङ् न भवति ।
उत्तरत्र '२६८५ । वि-पराभ्यां जेः ।१।३।१९।' इति तङ् । ततो रिपून तूर्णं हनि -
प्यामि । पुनर्बंधुं विनाकृतत्वात् दुःखितः सन् न जीविष्यामि ॥
१३१८ - स्मेष्यन्ते मुनयो, देवाः
कथयिष्यन्ति चाऽनिशम् ॥
'दश-ग्रीवस्य दुर्-नीतेर्
 
विनष्टं रक्षसां कुलम्.' ॥ १४ ॥
 
-
 
स्मेष्यन्त इत्यादि – मुनयो हर्षात् स्मेष्यन्ते हसिष्यन्ति । ङित्त्वात्तङ् । देवा
अनिशं कथयिष्यन्ति । यथा दशग्रीवस्य दुतेर्दुर्नयात् रक्षसां कुलं विनष्टम् ॥
१३१९ - केन सम्भावितं तात - कुम्भकर्णत्य राघवः ॥
 

 
रणे कर्त्स्यति गात्राणि मर्माणि च वितर्त्स्यति ॥१५॥
केनेत्यादि — हे तातेति शोकात् बुद्धिस्थं पितरमभिमुखीकरोति । केनैतत्स-
म्भावितं निश्चितम् । यत् कुम्भकर्णस्व गात्राणि रणे राघवः कर्त्स्यति छेत्स्यति ।
'१५२९। कृती छेदने' । मर्माणि वितर्त्स्यति अपनेष्यति । १५४० । उतृदिर्
हिंसाऽनादरयोः' । '२५०६ । सेसिचि- ।७।२१५७१' इत्यादिना इडिकल्पः ॥
१३२० - पतिष्यति क्षितौ भानुः पृथिवी तोलयिष्यते ॥
नभस्त्रान् भङ्क्ष्यते व्योम मुष्टिभिस् ताडयिष्यते ॥
पतिष्यतीत्यादि — क्षितौ भूमौ भानुरादित्यः पतिष्यति अधो गमिष्यति ।
पृथिवी तोलयिष्यते ऊर्ध्वं क्षेप्स्यते । '१७१६ । तुल उन्माने चुरादावदन्तेषु च
पठ्यते । कर्मणि लृट् । नभस्वान् वायुः काष्टवद्भक्ष्यते । कर्मणि हृद्र । मुष्टि-
भिव्योम ताडयिष्यते हनिष्यते ॥
 
"
 

 
-
 
१३२१ - इन्दोः स्यन्दिष्यते वह्निः, समुच्छोक्ष्यति सागरः ॥
 
"
 
जलं धक्ष्यति, तिग्मांशोः स्यन्त्स्यन्ति तमसां चयाः ॥
इन्दोरित्यादि — इन्दोः वह्निः स्वन्दिप्यते प्रस्रविष्यति । '२३५७७ । वृद्भ्यः
स्यसनोः ।१।३।१२।' इति परस्मैपदविकल्पः । सागरः समुच्छोक्ष्यति शोषं
यास्यति । जलं धक्ष्यति भस्मसात् करिष्यति । '१०६०। दह भस्मीकरणे' 1
'३२४ । हो ढः ।८।२।३१॥ ३२६ । एकाचो बशो भष्- ।८।२॥३७।' इति
भभावः । तिग्मांशोरादित्यात्तमसां चयाः तमः संघाः स्यन्त्स्यन्ति । स्यन्देः
पूर्ववत्परस्मैपदविकल्पः । २३४८। न वृद्भ्यः ।७।२।५९। इतीप्रतिषेधः ॥