This page has not been fully proofread.

४०४ भट्टिकाव्ये - चतुर्थे तिङन्त काण्डे लक्षण-रूपे तृतीयो वर्गः,
 
उन्मीलिप्यतीत्यादि – मे मम चक्षुर्वृथा निष्फलमुन्मीलिष्यति । यद्यस्मात
विनयागतं विनीतम् । आज्ञालाभोन्मुखम् । नम्र नमनशीलम् नरान्तकं
पुत्रं न द्रक्ष्यति ॥
 
१३१३ - धिङ् मां, त्रि-शिरसा ना ऽहं
सन्दर्शिध्ये ऽद्य यत् पुनः ॥
घानिष्यन्ते द्विपः केन
 
,
 
तस्मिन् पञ्चत्वमा॑गते. ॥ ९ ॥
 
धिङ् मामित्यादि — यत् त्रिशिरसा अद्य पुनरपि नाहं सन्दर्शिप्ये न दृष्टो
भविष्यामि । कर्मणि लट् चिण्वदि च । तस्मिन् त्रिशिरसि पञ्चत्वमागते मृते
द्विषः शत्रवः केन घानिष्यन्ते । अत्रापि चिण्वाद च ॥
 
१३१४ - शत्रुभिर् निहते मत्ते द्रक्ष्ये ऽहं संयुगे सुखम्,
 
-
 
युद्धोन्मत्ताद् विना शत्रून् समास्कन्त्स्यति को रणे १०
शत्रुभिरित्यादि —मत्ते मत्तनाम्नि शत्रुभिर्निहते । तैरेव शत्रुभिः संयुगे
सुखमहं द्रक्ष्ये द्रष्टव्योऽस्मि पूर्वं भयादृष्टः । अचिण्वद्भावपक्षे रूपम् । तस्य च
आतुर्युद्धोन्मत्ताद्विना रणे शत्रून् कः समास्कन्स्स्यति अभियास्यति । '१०४८
स्कन्दिर् गति-गोषणयोः' । '१२३ । खरि च ।८।४।५५।' इति चर्त्वम् ॥
 
3
 
१३१५ - आह्वास्यते वि-शङ्को मां योत्स्यमानः शत-ऋतुः ॥
प्रकल्प्स्यति च तस्या ऽर्थो निकुम्भे दुरणे हते ११
आह्वास्यत इत्यादि – शतक्रतुरिन्द्रः योत्स्यमानः युद्धं करिष्यन् विशङ्को
निर्भयः मां युद्धायाह्वास्यते । '२७०४ । स्पर्धायामाङः । १।३।३१।' इत्यात्मनेपदम् ।
निकुम्भे दुईणे दुःखेन हन्यत इति । '३३०५ । ईषत् । ३।३॥२६।' इत्यादिना
खल । तस्मिन् हते तस्य शतक्रतोरर्थः निष्कण्टकराज्यलक्षणः प्रकल्प्स्यति संपत्स्यते ॥
 

 
१३१६ – कल्पिष्यते हरेः प्रीतिर्, लङ्का चौपहनिष्यते ॥
 
"
 
देवान्तक ! त्वया त्यक्त्तो रिपोर् यास्यामि वश्यताम् ॥
कल्पिष्यत इत्यादि – शत्रुभिः कुम्भं च निपातितं श्रुत्वा हरेरिन्द्रस्य प्रीतिः
कल्पियते भविष्यति । '२३५१ । लुटि चक्लृपः ।१।३।९३॥ इति चकारात्स्य-
पनोरपि परस्मैपदविकल्पः । आत्मनेपदे च नेट्रप्रतिषेधः । लङ्का च शत्रुभिरुपह
नेप्यते विलोप्स्यते । कर्मणि लृट् । अचिण्वद्भावपक्षः । २३६६ । ऋद्धनोः
ये ।७।२।७०।' इतीट् । इह सुरैरागंस्यते । भावे लट् ॥
 
१३१७ - मरिष्यामि, विजेष्ये वा,
हताश चेत् तनया मम, ॥