This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'रावण-विलापो' नाम पोडशः सर्गः - ४०३
 
पूजयिष्यति । स्वयम्भूर्ब्रह्मा कल तोदयति प्रीतिं जनयिष्यति । '१२६० । तुष
ग्रीतौ' । '२९५। ष ढोः कः सि /८/२/४१॥ ॥
 
"
 
B
 
-
 
१३०८–१लाघिप्ये केन, को बन्धून् नेप्यत्यु॑न्नतिर्मुन्नतः ॥
कः प्रेष्यति पितॄन् काले, कृत्वा कत्थिष्यते न कः ४
लाघिष्य इत्यादिना - केनाहं लाविये श्लाघां करिष्यामि 'ममेदृशः
पुत्रः' इति । कः स्वगुणैरुन्नतः सन् बन्धूनुन्नतिं परां कोटिं नेष्यति । काले
पितृक्रियोचिते कः पितॄन् प्रेष्यति तर्पयिष्यति । '१५६९ । प्रीज् तर्पणे' । कृत्वा
किंचित्कार्यम् । को न कत्थिप्यते कथनां न करिष्यति 'अहमेवंविधः' इति ।
अतिकायाद्विनेति सर्वत्र योज्यम् ॥
 
-
 
१३०९ - उद्यस्यति हरिर् वज्रं, विचरिष्यति निर्-भयः ॥
भोक्ष्यते यज्ञ-भागांश् च शूर-मानं च वक्ष्यति ॥५॥
उद्यंस्यतीत्यादि — तथा हरिरिन्द्रः हन्तुं वज्रमुधंस्यति उद्धारयिष्यति ।
उत्पूर्वाद्यमे रूपम् । निर्भयश्चेतस्ततो विचरिष्यति । यज्ञभागांश्चात्मीयान्
भोक्ष्यते भक्षयिष्यति । '२७३७॥ भुजो ऽनवने ।१।३।६६।' इति तङ् । शूरमानं
च 'शरोऽस्मि' इति वक्ष्यति धारयिष्यति । वहेः '३२४ । हो ढः ।८।२।३१॥
'२९५ । ष ढोः कः सि ॥८॥२॥४१॥ ॥
 
१३१० - रविस् तप्स्यति निः शङ्क, वास्य॒त्य॑नियतं मरुत्, ॥
निर्वस्यैत्यृ॒तु-संघातः, स्वेच्छये॑न्दुरु॑देष्यति ॥ ६ ॥
 
रविरित्यादि — रविः निःशङ्कं शङ्कां विना तप्स्यति धोतिष्यते । मरुच्चा-
नियतं स्वच्छन्दो वास्यति । '११२४ । 'वा गति-गन्धनयोः' । ऋतुसंघातः षडृ-
तवः निर्वर्त्स्यति सर्वदा न भविष्यति । '२३४७ । वृद्भ्यः स्य-सनोः । १।३।९२ ।
इति विकल्पः । '२३४८ । न वृद्भ्यश्चतुर्भ्यः ।७।२।५९। इतीदप्रतिषेधः । स्वेच्छ-
येन्दुरुदेष्यति सदा पूर्णमण्डलो नोद्गमिष्यति । '१११८। इण् गतौ' ॥
१३११ - तीव्रं स्यन्दिष्यते मेघैरुग्रं वर्तिष्यते यमः ॥
 
-
 
अतिकायस्य मरणे किं करिष्यन्ति नाऽन्यथा ॥७॥
तीव्रमित्यादि - मेवैस्तीव्रं अतिशयेन स्यन्दिष्यते पूर्वं रजःप्रशमनमात्रं
वृष्टम् । भावे लट् । '२३४८ । न वृद्भ्यः ।७।२।५९।' इतीप्रतिषेधो न भवति ।
तत्र परस्मैपदग्रहणमनुवर्तते । यमः उग्रं वर्तिष्यते रौद्रं चरिष्यति । आत्मनेपदे
नेट्रप्रतिषेधः । अतिकायस्य मरणे सति इन्द्रादयः किमन्यथा विपर्ययं न
करिष्यन्ति किन्तु करिष्यन्तीति । 'किं भविष्यति नान्यथा' इति पाठान्तरम् ।
तत्र सर्वमेतद्भविष्यतीत्यर्थः ॥
 
१३१२ - उन्मीलिष्यति चक्षुर्मे वृथा, यद् विनयाऽऽगतम् ॥
आज्ञा लाभन्मुखं नवं न द्रक्ष्यति नरान्तकम् ॥ ८॥