This page has not been fully proofread.

४०२ भट्ट काव्ये - चतुर्थे दिन्त-काण्डे लक्षण रूपे तृतीयो वर्गः,
 
हवात् ॥२।२७।' इति सिचो लोपः । विटपहरिणनाथः शाखामृगाणां
नाथः नित्य सिद्धिमवश्यं भाविनी मौद्दिष्ट तर्कितवान् । नृपतिसतिः रामस्य
बुद्धिः प्रातकामेव संपन्नेच्छेव रावणवध-सीतालाभयोः सिद्धिरूपत्वात् । हर्पा-
दरंत रमते स्म । रजनिचरपतीनां मेवनादादीनां शोकः सन्ततोऽविच्छिन्नः
अतायि वर्धते स्म । '२३२८ । दीप-जन - ।३॥।६॥' इत्यादिना कर्तीरे चिण् ॥
इति श्री जयमङ्गलाऽऽख्यया व्याख्यया समलंकृते श्री-भट्टिकाव्ये
चतुर्थे तिङन्त काण्डे लक्षण-रूपे द्वितीयः परिच्छेदः (वर्गः ),
तथा लक्ष्य रूपे कथानके 'कुम्भकर्ण-चधो' नाम
पञ्चदशः सर्गः ॥ १५ ॥
 
षोडशः सर्गः-
इतः प्रभृति लटमधिकृत्य विलसितमाह - तत्र '२१९३। ऌशेषे च ।
३।३।१३।' इति लट् । ततोऽन्यत्रापि दर्शयिष्यति ॥
१३०५ - ततः प्ररुदितो राजा रक्षसां हत-वान्धवः ॥
 
'किं करिष्यामि राज्येन, सीतया किं करिष्यते. १
तत इत्यादि — ततोऽनन्तरं रक्षसां राजा रावणः हतबान्धवः व्यापा-
दितभ्रातृत्वात् शोकाभिभूतः सन् प्ररुदितः कन्दितुमारब्धः । 'किं करिष्यामि'
इत्यादिना । '३०५३। आदिकर्मणि तः - । ३।४।७१। अतिकाये वीरे हते किं
करिष्यामि राज्येन, न किंचित् । '२३६६ । ऋद्धोः स्ये ।७।२।७० ।' इतीद ।
सीतया च किं करिष्यते, न किंचित् ॥
 
१३०६ - अतिकाये हते वीरे प्रोत्सहिष्ये न जीवितुम् ॥
हेपयिष्यति कः शत्रून्, केन जायिष्यते यमः ॥२॥
 
-
 
अतीत्यादि – वीरे अतिकाये हते जीवितुमेव नोत्सहे किमन्यत्कर्तुम् ।
-शक्तः पलायनेन कः हेपयिष्यति लज्जयिष्यति । '२५७० । अर्ति-ही-।७।३।३६॥'
इत्यादिना णौ पुगन्तगुणः । केन यमः जायिष्यते । '६०२ । जि जये' । कर्मणि
हृट् । ८२७५७ । स्य-सिच्- । ६।४।६२।' इत्यादिना चिण्वदि च ॥
 
१३०७ - अतिकायाद् विना पाशं
को वा छेत्स्यति वारुणम्
रावणं मंस्यतै को वा,
 
"
 

 
स्वयम्भूः कस्य तोक्ष्यति ॥ ३ ॥
 
W
 
अतीत्यादि – '६०३ । पृथग् विना ।२।३॥३२॥ इति पञ्चमी । अतिकाया-
हिना वारुणं पाशं को वा छेत्स्यति द्विधा करिष्यति । को वा रावणं मंस्यते