2023-02-15 17:22:54 by ambuda-bot
This page has not been fully proofread.
४०० भट्टि काव्ये – चतुर्थे तिङन्त-काण्डे लक्षण-रूपे द्वितीयो वर्गः,
-
स्म । अजादेरङ्गस्य । '२२५४ । आडजादीनाम् ।६।४।१२॥ परयोरनङ्गत्वाच
'२३२६। उपसर्गस्यायतौ ।८।२।१९॥ इति लत्वम् । क्षतं च खण्डितं च सत्
रक्तमच्युतत् क्षरति स्म । '२२६९। इरितो वा ।३।१।५७।' इत्यङ् । हतं च नितं
सत् गामव्यशयिष्ट भूमौ पतितम् । '५४२ । अधिशीङ्-1१।४।४६।' इति कर्मसंज्ञा ॥
१२९६ - अङ्गदेना ऽहसातां तौ युध्यकम्पन कम्पनौ, ॥
-
अभ्यार्दीद् वालिनः पुत्रं प्रजो ऽपि स-मत्सरः, ११५
अङ्गदेनेत्यादि — अकम्पनः कम्पनश्च तौ । ज्येष्ठत्वात् पूर्वनिपातः । युधि
संग्रामे अङ्गदेन अहसाताम् । कर्मणि लुङ् । ८२६९६ । आत्मनेपदेष्वन्यतर-
स्याम् ।२।४।४४।' इति वधादेशाभावपक्षै रूपम् । प्रजो नाम राक्षसः समत्सरः
सक्रोधः वालिनः पुत्रमभ्यार्दीत् प्रहृतवान् ।' १९६८ । अर्द हिंसायाम् ॥
१२९७–तस्या ऽप्य॑वेभिदिष्टा ऽसौ मूर्धानं मुष्टिना ऽङ्गदः ॥
अहार्षीच् च शिरः क्षिप्रं यूपाक्षस्य निराकुलः ॥ ११६ ॥
तस्येत्यादि - तस्य प्रजङ्घस्यापि मूर्धानमसावदो मुष्टिनावेभिर्दिष्ट अत्यर्थं
भिन्नत्रान् । भिदेर्यङन्तस्य '२३०८। अतो लोपः ।६।४।४८ ।' । '२६३१॥ यस्य
हलः ।६।४।४९।' इति यलोपे रूपम् । निराकुलश्च नाम वानरः यूपाक्षस्य राक्ष-
सस्य शिरः क्षिप्रमहापत् छिन्नवान् ॥
१२९८ - शरीरं लोहिताक्षस्य न्यभाद् द्विविदम् तदा ॥
क्रुद्धः कुम्भस् ततो ऽभैत्सीन् मैन्दं स - द्विविदं शरैः ॥
शरीरमित्यादि — द्विविदो नाम वानरो लोहिताक्षस्य शरीरं न्यभाङ्क्षीत्
चूर्णितवान् । '१५४७ । भञ्जो आमदने' । ततोऽनन्तरं कुम्भकर्णसुतः मैन्दं
वानरं सद्विविदं द्विविदेन सह शरैरभैत्सीत् भिन्नवान् ॥
युग्मम्-
१२९९ - आघूर्णिष्टां क्षतौ, क्ष्मां च तावा॑शिश्रयतार्मुभौ ॥
मातुलौ विलौ दृष्ट्वा कुम्भं वालि-सुतो नगैः ॥११८॥
आघूर्णिटामित्यादि – तावुभौ क्षतौ आघूर्णिष्टां चक्रवद् भ्रान्तौ । क्ष्मां
च भूतमाशिश्रयतां आश्रितवन्तौ । भूमौ पतितावित्यर्थः । '२३१२ । णि-त्रि-
॥३।१।४८।' इत्यादिना चङ् । तौ च ताराभ्रातृत्वात् मातुलौ विलौ दृष्ट्वा वालि-
सुतो नगैर्वृक्षैः कुम्भं प्रौर्णावीदिति वक्ष्यमाणेन सम्वन्धः ॥
.
१३०० - प्रौर्णावीच्, छर- वर्षेण तानप्रौहीन् निशा-चरः ॥
वानरानैजिहद् रामस् तूर्ण रक्षितुम॑ङ्गदम् ॥ ११९ ॥