This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'कुम्भकर्ण वधो' नाम पञ्चदशः सर्गः – ३९९
१२९१ - अजिह्रदत् स काकुत्स्थौ,
 
शेषांश चा ऽजीजिवत् कपीन् ॥
हनूमानंथ ते लङ्का-
-
 
मैग्निना ऽदीदिपन् द्रुतम् ॥ ११० ॥
अजिह्लददित्यादि — एवं च सति हनुमान् काकुत्स्थाव जिह्लदत् हादितवान् ।
'२७ । ह्लादी सुखे च' ण्यन्तः । शेषांश्च कपीनजीजिवत् जीवयति स्म । अथ ते
जीविताः सन्तः लङ्कां द्रुतमदीदिपन् दीपितवन्तः । '२५६५। भ्राज- ।७।४।३।'
इत्यादिना इस्वपक्षे रूपम् ॥
 
5
 
१२९२ - समनात्सीत् ततः सैन्यम॑मार्जीदू भल-तोमरम् ॥
अमार्क्षीच् चा ऽसिपऽऽदीन॑वभासत् परश्वधान् ॥
समनात्सीदित्यादि-
–ततः सैन्यं समनात्सीत् सन्नद्दम् । '४४०३ नहो
धः ।८।२।३४॥' इति धत्वम् । हलन्तलक्षणा वृद्धिः । भलतोमरममाजींतू
शोधितवान् । मृजेरुदित्वात् पक्षे रूपम् । असिपत्रादीनमार्क्षीत् । इडभावे
रूपम् । उभयत्रापि '२४७३ । मृजेर्वृद्धिः ।७।२।११४॥ परश्वधानबभासत्
दीपितवान् । '२५६५। भ्राज-भास - ।७।४।३।' इति इस्त्रपक्षे रूपम् । अभासी-
च्चेति पाठान्तरम् । तत्रान्तर्भावितो ण्यर्थः ॥
 
१२९३ - कुम्भकर्ण - सुतौ तत्र समनद्धां महा- चलो ॥
 
निकुम्भश् चैव कुम्भश् च प्राप्तां तौ प्लवङ्गमान् ॥
कुम्भकर्णेत्यादि —– कुम्भश्चैव निकुम्भश्च कुम्भकर्णसुतौ महाबलौ तत्र सैन्ये
समनद्धां सन्नद्धौ । तौ च प्लवङ्गमान् प्रापता प्राप्तवन्तौ । ऌदित्वादङ् ॥
१२९४ - अगोपिष्टां पुरीं लङ्कार्मगौप्तां रक्षसां वलम् ॥
 
-
 
3
 
अत्याकामा॑युधा॒ऽनीकर्मनैष्टां च क्षयं द्विषः ॥ ११३॥
अगोपिष्टामित्यादि–लङ्कांच पुरीं अगोपिष्टां रक्षितवन्तौ । गुपेरूदित्त्वा-
दिपक्षे रूपम् । अगौप्तामितीडभावपक्षे रूपम् । हलन्तलक्षणा वृद्धिः । '२२८१॥
झलो झलि ।८।२।२६।' इति सिचौ लोपः । आयुधानीकं आयुधसमूहमयाक्तां
व्यक्तवन्तौ विसृष्टवन्तौ । '१०५५ । त्यज हानौ' । पूर्ववद्वृद्धिः सिचो लोपः ।
द्विषः शत्रून् क्षयमनैष्टां नीतवन्तौ । '२२९७ । सिचि वृद्धिः ।७।२।१।' ॥
१२९५ - अकोकूयिष्ट तत् सैन्यं, प्रपलायिष्ट चाऽऽकुलम् ॥
अच्युतच् च क्षतं रक्तं, हृतं चा ऽध्यशयिष्ट गाम् ॥
अकोकूयिष्टेत्यादि — तत् सैन्यं लवङ्गमानां भयादकोकूयिष्ट भृशं शब्दं
कृतवत् । १०१७ । कुङ् शब्दे' इत्यस्मात् यडयभ्यासस्य २६४१॥ न कवतेर्यडि
।७।४।६३ ।' इति कुङश्रुत्वप्रतिषेधः । ततो यङन्ताल्लुङ् । प्रपलायिष्ट पलायते
 
,
 
5