This page has not been fully proofread.

३९८ भट्ट काव्ये - चतुर्थ तिङन्त काण्डे लक्षण-रूपे द्वितीयो वर्गः,
 
तावित्यादि- - या मृतं जीवयति या च क्षतस्य सन्धानं करोति तथा
विशल्यं च या करोति । '२८४१॥ कृत्यल्युटो बहुलम् ।३।३।११३ ।' तामो-
पवीमानेतुं प्राष्टामिति योज्यम् । ८३५३४॥ ओपवेश्च विभक्तावप्रथमायाम्
।६।३॥३२।' इति दीर्घत्वम् ॥
 
१२८७ - प्रोदपाति नभस् तेन, स च प्रापि महा-गिरिः ॥
यस्मिन्न॑ज्वलिपू रात्रौ महौषध्यः सहस्र-शः ॥ १०६॥
प्रोद्पातीत्यादि - तेन हनूमता नभः प्रोदपाति उत्पतितम् । स च महा-
निरिस्तेन प्रापि प्राप्तः । कर्मणि लुङ् । यस्मिन् गिरौ महौषध्यः सहस्रशोऽनेकधा
रात्रात्रज्वलिपुः दीप्यन्ते स्म । '२३३० । अतो लान्तस्य ।७।२।२।' इति वृद्धिः ॥
१२८८ - निरचायि यदा भेदो नौषधीनां हनू-मता, ॥
 
सर्व एव समाहारि तदा शैलः सहौषधिः ॥ १०७ ॥
निरचायीत्यादि–यदा हनूमता ओपधीनां भेदो न निरचायि विशेषतो
न निश्चितः तदा कृत्स्त्र एव शैलः सहौषधिरोपधिसहितः समाहारि समानीतः ॥
१२८९ - प्राणिपुर् निहताः केचित्,
 
केचित् तु प्रोदमीलिषुः ॥
तमो ऽन्ये ऽहासिषुर् योधा,
व्यजृम्भिपत चाडपरे ॥ १०८ ॥
 
प्राणिपुरित्यादि – यदा ओषधिसन्निधानात् ते निहताः केचिद्योधाः
ग्राणिपुः उच्छ्रसितवन्तः । केचित्तु प्रोडमीलिपुः उन्मीलितलोचना बभूवुः । अन्ये
तमो मोहमहासिपुः व्यक्तवन्तः । '२३७७ । यम-रम- ।८।२।७३ ।' इति सगिटौ ।
तथान्ये ऽहासिपुरिति पाठान्तरम् । ते तथाभूतमात्मानं दृष्ट्वा सविलासं हसि-
तवन्तः । अपरे व्यजृम्भिपत जृम्भिकां कृतवन्तः । ८४१५११६॥ जमि-जृमि
गात्रचिनामे' इत्यात्मनेपदी ॥
 
१२९० - अजिघ्रपंस् तथैवाऽन्यानौषधीरोलिपस् तथा ॥
 
3
 
-
 
एवं तेऽचेतिषुः सर्वे, वीर्य चाऽधिषताऽधिकम्. १०९
अजिघ्रपन्नित्यादि — तथान्यान् लब्धसंज्ञानोषधी र जिघ्रपन् घ्रापितवन्तः ।
नासिकयाभ्यवहृतवन्त इत्यर्थः । ८५४०। गति बुद्धि ।१।४।५२।' इत्यादिना
प्रत्यवसाने कर्मसंज्ञा । (२५८९। जितेर्वा ।७।४।६।' इति '२३१४ । णौ चङयु-
पधायाः ।७।४।१४।' इत्यकारः । तथालिपन लिप्तवन्तः । अन्यानोषधीभिरित्य-
र्थात् । '२५१८ । लिपि - सिचि-।३।१।५३ ।' इत्यङ् । एवमनेन प्रकारेण सर्वे-
ऽचेतिषुः संज्ञां लब्धवन्तः । '३९ । चिती संज्ञाने ।' अधिकं च वीर्यमोषधि-
अजादविषत दधति स्म । '२३८९ । स्था- ध्वोरिश्च । १।४।१७।' ॥
 
1