2023-02-15 17:22:54 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य-रूपे कथानके 'कुम्भकर्ण वधो' नाम पञ्चदशः सर्गः– ३९७
१२८२ - 'मा शोचिष्ट, रघु- व्याघ्रौ नाऽमृषातामिति ब्रुवन् ॥
अवावुद्ध स नीऽऽदीन् निहतान् कपि- यूथ-पान्. ॥
मा शोचिऐत्यादि — यूर्य मा शोचिष्ट शोकं मा कुरुत । '२२१९। माङि
लुङ् ।३।३।१७५।' यस्माद्रघुव्याघ्रौ नामृषातां न मृतौ इत्येवं ब्रुवन् अपारी-
दिति योज्यम् । ये च निहतास्तानीलादीन् कपियूथपान् स विभीषणः परिभ्र-
मन् अवावुद्ध अवयुद्धवान् । एते हता इति । '२३२८ । दीप-।३।१।६१।'
इत्यादिना चिणो विकल्पितत्वादभावपक्षे रूपम् ॥
—
१२८३ - तत्रैषज् जाम्बवान् प्राणीदुदमीलीच् च लोचने, ॥
पौलस्त्यं चाऽगदीत् 'कञ्चिद॑जीवीन् मारुता॒ऽऽत्मजः.'
-
तत्रेत्यादि — तत्र तेषु जाम्बवान् ईषन्मनाक् प्राणीत् उच्चसिति स्म ।
' ११४४ । अन प्राणने ।', '२४७८ । अनितेः ।८।४।१९॥ इति णत्वम् । लोचने
च उदमीलीत उन्मीलितवान् । ८५५६ । मील-क्ष्मील निमेषणे' । पौलस्त्यं च
बिभीषणमगदीत् गदितवान् । '२२८४ । अतो हलादेः ।७।२।७।' इत्यवृद्धौ
रूपम् । कच्चित् किं हनुमान् अजीवीत् जीवितवान् । न मृत इति ॥
१२८४ - तस्य क्षेमे महाराज ! ना ऽमृष्मह्य॑खिला वयम् ॥
पौलस्त्यो ऽशिश्रवत् तं च जीवन्तं पवनाऽऽत्मजम् ॥
तस्येत्यादि – तस्य हनुमतः क्षेमे जीवितत्वे सति हे महाराज ! अखिलाः
सर्व एवं वयं नामृष्महि न नृता इति । '२७९० । आशंसायां भूतवच्च ।३।३।-
१३२ ।' इति लुङ् । एवमुक्तः पौलस्त्यो जीवन्तं पवनात्मजं तमशिश्रवत् श्रावि-
तवान् । शृणोतेर्ण्यन्ताच्चङि सन्वद्भावे अभ्यासे वर्णस्य '२५७८ । स्रवति - शृणोति -
।७।४।८१॥' इत्यादिना इत्वपक्षे रूपम् ॥
युग्मम्-
१२८५ - आयिष्ट मारुतिस् तत्र, तौ चा ऽथ्यहृषतां ततः ॥
प्रष्ट हिमवत्-पृष्ठे सर्वौषधि-गिरिं ततः ॥ १०४ ॥
आयिष्टेत्यादि — तत्र पौलस्त्याहूतो मारुतिरायिष्ट आगतवान् । ८५०८ी
अय गतौ' आङ्पूर्वः। ततोऽनन्तरं तौ जाम्बवद्विभीषणौ अषातां हृष्टवन्तौ ।
'१३०८। हृष तुष्टौ' पुषादिः । ततस्तौ हृष्टौ हनुमन्तमिति वक्ष्यमाणेन सम्बन्धः ।
प्राष्टां प्रतिवन्तौ । '२२९७ । सिचिवृद्धिः ।७।२।१।' '१३३७। हि गतौ' ।
हिमवत्पृष्ठे हिमवतः पृष्ठे । सर्वौषधिगिरिम् । सर्वा ओषधयो यस्मिन्निति ॥
१२८६ - तौ हनूमन्तमा॑नेतुषर्धी मृत जीविनीम् ॥
सन्धान- करणीं चाऽन्यां वि-शल्य-करणीं तथा १०५
भ० का० ३४