2023-02-15 17:21:43 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य-रूपे कथानके श्री राम-संभवो नाम प्रथमः सर्गः-
११
रूपम् । दत्रिमसभ्यतोषे दानेन निर्वृत्तो दत्रिमः सभ्यानां ब्राह्मणानां तोषो यत्र
कर्मणि । विहित्रिसे विधानेन निर्वृत्ते कर्मणि दाजो धाञश्च '३२६६। द्वितः क्रिः
।३॥३॥८८॥ इतिौ विहिते प्रथमस्य '३०७६ । दोदोः ।७।४।४६॥ इति
ददादेशः । द्वितीयस्य ' ३०७७ । दधातेर्हिः ।७।४।१२॥ इति हिरादेशः । मप् ।
सभायां साधव इति सभ्याः । १६५७ । सभाया यः ।४।४।१०५॥ उदारवंश्या
महावंशोद्भवाः । शेषे यत् । कौसल्या कैकेयी च क्षत्रिये । सुमित्रा तु वर्णसंकर-
जा । किमर्थं प्राशुः । प्रसोतुं सुपुत्रान्विनीतान्प्रसवितुम् । तत्र कौसल्या कैकेयी
चैकैकं पिण्डं प्राशितवत्यौ । ताभ्यां परिचारिकेति पिण्डभागद्वयं दत्तं
सुमित्रा प्राशितवती । ततश्च पुत्रद्वयं जनयिष्यति । एवंचाभिसंधाय चतुर इत्युक्तं
न तु त्रीनिति । '११०४। पू- प्राणिगर्भविमोचने ।' । '२२७९ । स्वरति-
१७।२।४४ ।' इत्यादिना विभाषिते ॥
>
१४ - कौसल्ययाऽसावि सुखेन रामः
प्राकू, केकयी तो भरतस् ततोऽभूत् ॥
प्रासोष्ट शत्रु प्रमु॑दार- चेष्ट-
मैका सुमित्रा सह लक्ष्मणेन, ॥
कौसल्ययेत्यादि – कोसलस्य राज्ञोऽपत्यमिति '११८९॥ वृद्धेत्कोसला-
जाद
(यङ् ।४।१।१७११११५२८। यङश्चाप् ।४।१।७४ । कौसल्यया प्राकू प्रथ-
मम् असावि रामो जन्यते स्म । पूङः कर्मणि लुङि चिणि रूपम् । सुखेनेति ।
प्रकृत्यादित्वात्तृतीया । महतां जन्मनि न काचिदपि पीडास्ति ॥ तदनन्तरं
केकयीतो भरतोऽभूत् । केकयानाचष्टेति णिच् । सा हीदृशास्तादृशाः केकया
इति कथयति । तदन्तात् 'अच इः' इति इकारप्रत्यय औणादिकः ।
णिलोपः । 'कृदिकारादक्तिनः' इति ङीष् । '२११२ । अपादाने चाहीयरुहोः
१५।४।४५।' इति तसिः । यदा च केकयस्यापत्यम् '११८६। जनपदशब्दात्क्ष-
त्रियादञ् ।४।१।१८६।' इत्यञ् । '११४४ । केकय मित्रयु प्रलयानां यादेरियः
।७।३।२।' इतीयादेशः । ८४७० । टिड्ढाणञ्- । ४।१।१५॥ इति ङीपू । तदा कैके-
यीति द्वितीयं रूपम् । सुमित्रा शत्रुघ्नमुदारचेष्टम् । उदारा चेष्टा यस्येति ।
आसोष्ट प्रसूतवती । कर्तरि लुङ् । ङित्त्वात्तङ् । जातमात्रस्य हि तस्य किल महा-
सच्वतया तादृश्येव चेष्टाऽभूदिति श्रूयते । एकेति । एकैवेति गम्यमानत्वादेव-
शब्दो न प्रयुक्तः । सह लक्ष्मणेन लक्ष्मणेन सह ॥
१५ - आचद् द्वि-जातीन् परमाऽर्थ - विन्दा-
नुदेजयान् भूत-गणानू न्यषेधीत् ॥
-