This page has not been fully proofread.

३९६ भट्टि काव्ये - चतुर्थे तिडन्त काण्डे लक्षण-रूपे द्वितीयो वर्गः,
 
अनमण्डलं आयुधानं समचष्ट पूजितवान् । स इन्द्रजित् ब्रह्मणः सकाशात्
जयावहन एन्दन चालव्ध लव्धवान् । २२८११ झलो झलि ।२६।
इति सिचो लोपः ॥
 
१२७८ - तम॑ध्यासिष्ट दीग्रा॒ऽग्रम॑मोदिष्ट च रावणिः ॥
 
छन्न रूपस् ततो ऽकर्तीद् देहान् रावण-विद्विषाम् ९७
तमित्यादि – तं स्यन्दनं दीप्रायं उपरिभागस्य रत्नप्रत्युप्तत्वात् । अध्यासिष्ट
अध्यासितवान् । '५४२ अघि-शी-।१।४।४६।' इति कर्मसंज्ञा । तत्रस्थश्च
रावणिरत् अमोदिष्ट हृष्टवान् । ततोऽसौ छन्नरूपः अदृश्यः सन् रावण-
विद्विषां वानराणां देहानकर्तत् छिन्नवान् । १४२९। कृती छेदने ।' '२५०६ ।
सेसिचि-।७।२।५७।' इत्यादिना सिचोऽन्यत्रे विकल्पः । 'रावणिविद्विपाम्' इति
पाठान्तरम् । तत्र देवान्तकाद्विविद्विपामित्यर्थः ॥
 
१२७९ - सप्त- षष्टिं प्लवङ्गानां कोटीर् वार्णैरसूषुपत् ॥
 
निशाऽन्ते रावणिः क्रुद्धो राघवौ च व्यमूमुहत्. ९८
सप्तपष्टिमित्यादि - वानराणां कोटी: सप्तपष्टिं बारसूप स्वापितवान्
व्यापादितवानित्यर्थः । २५८४ । स्वापे ।६॥१८।' इति सम्प्रसारणम् ।
निशान्ते च निशावसाने रावणिः क्रुद्धः सन् राघवो व्यमृमुहत् मोहितवान् ।
'१२७४ । मुह वैचित्ये । णौ चङि रूपम् ॥
 
१२८० - अपिस्फवत् स्व-सामर्थ्यम॑गूहीत् सायकैर् दिशः ॥
अघोरीच् च महा-घोरं, गत्वा, प्रैषीच् च रावणम्.९९
अपिस्फवदित्यादि- तो मोहयित्वा आत्मीयं सामर्थ्यमविस्फवत् वर्ष-
यति स्म । 'ईशस्तादृशोऽहम्' इति । '२५९७ ॥ स्फयो वः ।७।३।४११' इति
'णौ वत्वम् । दिशः सायकैरगृहीत् छादितवान् । ८२२७८। नेटि ।७।१॥४॥
इति वृद्धिप्रतिषेधः । हृयन्तत्वाद्वा । महाघोरं चातिरौद्रं शब्दमघोरीत् मुक्त-
वान् । गत्वा च लङ्कां रावणं प्रेषीत् प्रेषितवान् । 'गच्छ तत् ममाद्भुतपराक्रमं
द्रष्टुम्' इति । 'इषु गतौं' ॥
 
युग्मम्-
१२८१ - विभीषणस् ततो ऽबोधि स- स्फुरौ राम-लक्ष्मणौ ॥
अपारीत् स गृहीतो॒ल्को हत- शेषान् प्लवङ्ग मान् 11
विभीषण इत्यादि - ततस्तस्मिन् काले विभीषणः रामलक्ष्मणौ सस्फुरौ
चलन्तौ अबोधि बुद्धवान् जीविताविति । '२३२८ । दीप-जन - ।३।१।६१॥ इत्या-
दिना कर्तरि चिण् । स्फुरणं स्फुरः । घजर्थे कविधानम् । यदुक्तं स्थास्त्रागाव्य-
धिहनियुध्यर्थमिति तदुपलक्षणं न परिगणनम् । स विभीषणः अन्धकारात्
महतोल्कः सन् हतशेषान् प्लवङ्गमानपारीत् ' मा भष्ट' इति प्रीणितवान् ॥