This page has not been fully proofread.

३९४ भट्टि-काव्ये—-चतुर्थे तिन्त-काण्डे लक्षण-रूपे द्वितीय वर्गः,
 
तुष प्रीतो यः । नहखाणि दिव्यानि चाशिक्षिष्ट शिक्षते स्म । '६४७५
शिक्ष विद्योपादाने' । रणे च राक्षसानरक्षीत् रक्षति ॥
 
१२६९ - अध्यगीष्टा अर्थ-शास्त्राणि,
यमस्या sहोट विक्रमम् ॥
देवssहवेष्वदीपिष्ट,
 
17
 
W
 
ना ऽजनिष्टा ऽस्य साध्वसम् ॥ ८८ ॥
अध्यगीऐत्यादि- अर्थशास्त्राणि पराभिसन्धानार्थानि अध्यगीष्ट अधीत.
वान् । '२४६० । विभाषा लुइ-लुङोः ।२४॥५०॥ इति इङो गाङादेशः ।
यमस्याप्ययं विक्रममहोष्ट अपनीतवान् । '५१५६। हुङ् अपनयने ।' अहलन्तत्वा-
त्सिचो न कित्वम् । देवाहचेष्वदीपिष्ट शोभितः । अस्य च साध्वसं भयं नाज-
निष्ट न जातम् । '२३२८ । दीप-जन-।३॥।६१॥' इत्यादिना चिण्वद्भावपक्षे रूपम् ॥
१२७०- एष रावणिरांपादि वानराणां भयङ्करः ॥'
 

 
---
 
आह्वता उथ स काकुत्स्थं धनुश्चा ऽपुस्फुरद् गुरु ॥
एष इत्यादि - य एवं स एप रावणिः आपादि अस्माकं समीपमागतः ।
'१२४४॥ पद गतौ ।' '२५१३ । चिण् ते पदः ।३।१।६०।' इति चिण् । यतो
रावणिर्वानराणां भयङ्करः । अथ सोऽतिकाय: समीपमागतः काकुत्स्थमाह्नत
युद्धायाहूतवान् । '२४१९। आत्मनेपदेष्वन्यतरस्याम् ।३।१।५४।' इत्यङ् । धनुश्च
गुरु महदपुस्फुरत् स्फारितवान् । '२५६९ । चि-स्फुरोणौ ।६॥।५४।' इत्यात्वम् ॥
१२७१ - सौमित्रिः सर्प-वत् सिंहमार्दिदत् तं माऽऽहवे. ॥
 
तौ प्रावीवृततां जेतुं शर जालान्यनेकशः ॥ ९० ॥
सौमित्रिरित्यादि- - यथा सर्पः सिंहं गच्छति तद्वत्तमतिकायमार्दिदत् गत-
वान् । '५६ । अर्द गतौ ।' अर्दनमर्दः । तस्करोतीति णिच् । तदन्ताञ्चङि रूपम् ।
' १९६८ । अर्द हिंसायाम्' इति चौरादिको वा । तौ सौमित्र्यतिकाय जेतुं
शरजालानि प्रावीवृततां बहूनि प्रवर्तितवन्तौ । '२५६७ । उर्ऋत् ।७।४।७।' इति
णौ
चङ्युपधाया अपवाद ऋकारः ॥
 

 
१२७२ - अच्छेत्तां च महा॒ऽऽत्मानौ, चिरम॑श्रमतां न च ॥
तथा तावा॑स्थतां वाणान॑तानिष्टां तमो यथा ॥ ९१ ॥
अच्छैत्तामित्यादि—तौ च महात्मानौ परस्परस्य शरजालानि अच्छैत्तां
छिनवन्तौ । '२२६९ । हरितो वा ।३।१।५७।' इत्यङभावपक्षे रूपम् । '२२८१॥
झलो झलि ।८।२।२६।' इति सिचो लोपः । चिरं चिरेणापि नाश्रमतां न
श्रान्तौ । श्रामिः पुषादिः । तौ तथा बाणानास्थतां क्षिप्तवन्तौ । '२४३८८
खड़ति चक्ति-।३।१॥५२॥ इत्यङ् । २५२० । अस्यते ।७।४।१७।' यथा