This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'कुम्भकर्ण वधो' नाम पञ्चदशः सर्गः- ३९३
अवभ्राजदित्यादि — ततोऽनन्तरं त्रिशिराः कुमारः पवनात्मजविपये शक्ति
वीर्यमवाजत् दीपयति स्म । '२५६५॥ भ्राज ।७।४।३। इत्यादिना इस्वाभाव-
पक्षे रूपम् । तस्य वाजिनो रथयुक्ता रणे हनूमता हताः सन्तः अमृषत मृताः
'२५३८ । म्रियतेर्लुङ्- ।१।३।६१।' इति तङ् ॥
 

 
१२३५ - अस्रसच् चाऽऽहतो मूर्ध्नि,
खड्डूं चा ऽजीहरद् द्विया ॥
प्राणानौज्झीच च खङ्गेन
छिन्नैस् तेनैव मूर्धभिः ॥ ८४ ॥
 
अस्त्रसदित्यादि — त्रिशिराश्च हनुमता मूर्ध्नि हतः सन् रथाद्भूमौ अस्रसत्
त्रस्तः पतितः । '२३४५ । बुच्चो लुङि ।१।३।९१॥ इति परस्मैपदम् । धुतादि-
त्वादङ् किति इत्यनुनासिकलोपः । स्त्रस्तश्च स खड्नं हस्तस्यं द्विषा हनुमता
अजीहरत् हारितवान् । तेनैव च खङ्गेन छिन्नैर्मूर्धमिर्हेतुभूतैः प्राणानीत्
व्यक्तवान् । '१३८८। उज्झ उत्सर्गे ॥
 
युग्मम्-
१२६६ मत्तेना Sमारि संप्राप्य शरभाऽस्तां महा-गदाम् ॥
 
सहस्र- हरिणा ऽक्रीडीदतिकायस् ततो रणे. ॥८५ ॥
मत्तेनेत्यादि – शरभेण वानरेणास्तां क्षिप्तां महागदां प्राप्य मत्तेन सुतानां
रक्षार्थं प्रेषितेन राक्षसेनामारि मृतम् । भावे लुङ् । ततोऽनन्तरं अतिकायो राजपुत्रो
रणे अक्रीडीत विहरति स्म । रथेनेति वक्ष्यति । सहस्रं हरयोऽश्वा यस्य रथस्य ॥
१२६७ रथेना ऽविव्यथच् चाडरीन्,
व्यचारीच् च निरङ्कुशः ॥
विभीषणेन सो sख्यायि
 
2
 
राघवस्य महा-रथः ॥ ८६ ॥
 
रथेनेत्यादि – अरींश्चाविव्यथत् पीडितवान् । व्यथेर्ण्यन्तस्य चङि रूपम् ।
निरङ्कुशश्चाप्रतिहतशक्तिर्व्यचारीत् भ्राम्यति स्म । रान्तत्वाद्वृद्धिः । स विचरन्म-
हारथः विभीषणेन राघवस्य अख्यायि कथितः । कर्मणि लुङ् ॥
 
१२६८ - 'अतस्तम्भदेयं वज्रं, स्वयम्भुवम॑तूतुषत् ॥
 
:
 
-
 
अशिक्षिष्ट महाऽस्त्राणि, रणे डरक्षीच् च राक्षसान्. ८७
अतस्तम्भदित्यादि — अयं स्वशक्त्या वज्रं अतस्तम्भत् स्तम्भितवान् । '४४३॥
स्तभि स्कभि प्रतिष्टम्भे ।' ण्यन्तस्य । '२३१२ । णि श्रि - । ३।१।४८।' इत्यादिना
चङ् । स्वयम्भुवमतूतुषत् उग्रेण तपसा आराधनात् तोषितवान् । १२६० ।