This page has not been fully proofread.

३९२ भट्टिकाव्ये -तुन्ति-काण्डे लक्षण-रूपे द्वितीयो वर्गः,
करोतीति णिच् । गाविष्टवादति टिलोपः । १२३१४। पौ चड्युपवाया - १७१४।११'
इति '२५७२ । नाग्लोपिशास्वृद्विताम् ।७।४।२।' इति हस्वप्रतिषेधः : सच राव-
गिरव्यथो व्यथारहितः । हताश्वाद्र्थाढवतीय महीं गतः सन् योद्धुमारब्ध
भते स । २२८१ । झलो झलि ।८।२।२६।' इति सिचो लोपः । घत्वं च ॥
 
आर.
 
१२६० - तस्या ऽहारिपत प्राणा मुष्टिना वालि-सूनुना ॥
 
प्रादुडुवंस् ततः क्रुद्धाः सर्वे रावणयोऽङ्गदम् ॥७९॥
तस्येत्यादि – तस्य प्राणाः वालिपुत्रेण अहारिपत हृताः । कर्मणि लुङ् ।
चिण्वद्भावः । ततो ऽनन्तरं सर्वे रात्रणयः रात्रणस्थापत्यानि देवान्तकादयः क्रुद्धाः
सन्तोऽङ्गद प्रादुद्रुवन् गतवन्तः । '२३१२ । णि श्रि - १३ । १।४८।' इत्यादिना चङ्॥
१२६१ ततो नील - हनूमन्तौ रावणीन॑ववेष्टताम् ॥
 
अकारिष्टां गिरीस् तुङ्गार्नरौत्सीत् त्रिशिराः शरैः ८०
तत इत्यादि — ततो रावणीनङ्गदाभिमुखमागच्छतो नीलो हनूमांच्याववेष्टतां
वेष्टितवन्तौ । '२५८३ । विभाषा चेष्टि चेष्ट्योः ।७।४।१६।' इत्यभ्यासस्यात्वम् ।
'गिरींश्चाकारिष्टां विक्षिप्तवन्तौ । '१५०३ । कृ विक्षेपे' । सिचिवृद्धिः । तांश्च गिरी-
निक्षिप्तान् त्रिशिराः शेरस्तुङ्गानरौत्सीत् आवृतवान् । '१५३२ रुधिर् आवरणे ॥
१२६२ - परिघेणा ऽवधिष्टा ऽथ रणे देवान्तको वली ॥
 
>
 
मुष्टिना ऽददरत् तस्य मूर्धानं मारुताऽऽत्मजः ॥८१॥
परिघेणेत्यादि — अथ देवान्तको बली परिघेणावघिष्ट हतवान् । '२६९५।
आङो यम-हनः । १।३।२८।' इति तङ् । अविवक्षितकर्मकत्वात् '२६९६। आत्म-
नेपदेवन्यतरस्याम् । २।४।४।४॥ इति हनो वधादेशः । तस्य नतो मूर्धानं मारु-
तात्मजः मुष्टिना अददरत् दारितवान् । '१५८८ । ६ विदारणे' ण्यन्तस्य चपरे
णौ '२५६६। अत् स्मृ-दृ-त्वर-१७।४।९५।' इत्यादिनाभ्यासस्यात्वम् ॥
१२६३ - अदीदिपत् ततो वीर्य, नीलं चाडपीपिडच् छरैः ॥
 
युद्धोन्मत्तस्, तु नीलेन गिरिणाऽनायि संक्षयम्. ८२
अदीदिपदित्यादि — ततो देवान्तकविनाशादनन्तरं युद्धोन्मत्तः सुतानां
रक्षार्थ यः प्रेषितः स वीर्यमदीदपत् । '२५६५ । आज भास - । ७।४।३।' इत्या-
दिना ह्रस्वाभावपक्षे रूपम् । नीलं च शरैरपीपिडत् पीडितवान् । हस्वाभावपक्षे
रूपम् । अपीपरदिति पाठान्तरम् । पूरितवानित्यर्थः । '१६५३ प पूरणे' इति
चुरादिः । स तु नीलेन संक्षयं गिरिणा आनायि नीतः । कर्मणि
 
11
 
१२६४ - अब वाजत् ततः शक्तिं त्रिशिराः पवनाऽऽत्मजे, ॥
हनूमता क्षतास् तस्य रणे ऽमृषत वाजिनः ॥ ८३ ॥