This page has not been fully proofread.

३९० भट्टि काव्ये - चतुर्थे तित-काण्डे लक्षण रूपे द्वितीयो वर्गः,
 
mm
 
अपिक्षाता सहस्रे द्वे
 
तद्-देहेन वनौकसाम् ॥ ६९ ॥
 
ऐन्द्रेयादि-ऐन्द्रेण शरेण हृदयेऽव्यात्सीत् विद्धवान् । स तथा हतो
गामध्यवासीत् भूमिमध्युषितवान् । तस्य पततो देहेन वनौकसां वानराणां
ढे सहस्रे अपिक्षातां चूर्णिते । '१५४६ । पिप्पू संचूर्णने कर्मणि लुङ् ॥
१२५१ - अस्ताविषुः सुरा रामं, दिशः प्रापन् निशा-चराः ॥
भूकम्पष्ट सीन्द्रा, व्यचालीर्दम्भसां पतिः ७०
 
-
 
"
 
अस्ताविपुरित्यादि — तस्मिन् हते सुरा देवा राममस्ताविपुः स्तुवन्ति स्म ।
'२३८५॥ स्तु-सु-धूभ्यः परस्मैपदेषु ।७।२।७२ । इतीट् । निशाचराताद्दिशः
प्रापन् प्राप्तवन्तः । '१३४१॥ आपले व्याप्तौ ।' सादीन्द्रा सकुलपर्वता भूमिरक-
म्पिष्ट चलति स्म । अम्भसां पतिः समुद्रो व्यचालीत् प्रक्षुभितवान् ॥
१२५२ - हतं रक्षांसि राजानं कुम्भकर्णमंशिश्रवन्, ॥
अरोदीद्रावणो ऽशोचीन्, मोहंचा ऽशिश्रियत् परम् ॥
 

 
हतमित्यादि – हतं व्यापादितं कुम्भकर्ण रक्षांसि राजानं रावणमशिश्रवन्
श्रावितवन्तः । शृणोतेर्ण्यन्तात् सनीव कार्यमिति ( २५७८॥ स्रवति-शृणोति
–।७।४।८१।' इत्यादिना अभ्यासस्य विकल्पेनेट् । एवं च कृत्वा अशुश्रुवन्निति
पाठान्तरम् । द्विकर्मकता तु बुद्ध्यर्थत्वात् । श्रुत्वा च रावणोऽरोदी अधूणि
मुमोच । अशोचीत् शोचति स्म । 'तेनापि त्यक्तोऽस्मि' इति । परं च मोहं
मूर्च्छामशिश्रियत् । '९६३ । श्रिज् सेवायाम्' । '२३१२ । णि - श्रि - । ३।१।४८।'
इत्यादिना चङ् ॥
 
युग्मम्-
१२५३ - अपप्रथद् गुणान् भ्रातुरचिकीर्तच्च विक्रमम् ॥
 
'क्रुद्धेन कुम्भकर्णेन ये ऽदर्शिषत शत्रवः ॥ ७२ ॥
अपप्रथदित्यादि-आतुर्गुणान् वुद्धिमत्त्वादीनपप्रथत् प्रख्यापितवान् । '८१८
प्रथ प्रख्याने' घटादिः । तस्मात् ण्यन्ताञ्चडि '२५६६ । अत् स्मृ-दृ-स्वर - ।७।४।१५॥
इत्यादिनाऽत्वम् । विक्रमं च शौर्यमचिकीर्तत् उदीरितवान् । १७७५ । कृत
संशब्दने' इति चौरादिकः । '२५८९। जितेर्वा ।७।४।६।' इत्यधिकृत्य '२५६७
उर्फत् ।७।४।७।' इति इकाराभावपक्षे रूपम् । '२५७१। उपधायाश्च । ७।१।१०१।
इतीत्वम् । विक्रमकीर्तनं चाह - क्रुद्धेन क्रोधकर्त्रा कुम्भकर्णेन ये शत्रवोऽदर्शि-
'पत दृष्टाः । कर्मणि लुङ् । '२७५७। स्यसिच्- ।७।४।६२।' इत्यादिना दृशेश्चिण्वदिः ॥