2023-02-15 17:22:52 by ambuda-bot
This page has not been fully proofread.
३८८ भट्टि काव्ये - चतुर्थे तिन्त-काण्डे लक्षण-रूपे द्वितीयो वर्गः,
। '२५८३ ।
अभ्यासस्य अत्वम् । राघवौ च योद्धुमचिचेष्टत् व्यापारयति स्म
विभाषा वेष्टि-चेष्ट्योः १७१४१९६।' इत्यभ्यासस्यात्वपक्षे रूपम् । स कुम्भकर्णो
योद्धुं न्यवर्तिष्ट निवृत्तः । निवृतिर्घुतादिः । '२३४५॥ धुच्यः-११॥३॥९१॥ इत्यादि-
नात्मनेपदे नाङ् । वानराचायुत्सन्त युध्यन्ते स्म ॥
१२४२ - अविवेष्टन् नृपऽऽदेशा । रुक्ष॑श् चाऽऽशु राक्षसम् ॥
तान॑धावीत् समारूढांस् तेऽध्यस्रंसिषता ऽऽकुला:. ६१
-
अविवेटन्नित्यादि – वानरा राक्षसमविवेन् चेष्टयन्ति स्म । अत्र राम
इत्यर्थाद्रष्टव्यम् । यतस्तदादेशादाशु ते राक्षसमारुक्षन् आरूढाः । रुहः '२३३६।
शल इगुपधात्- ।३।१।४५ ।' इत्यादिना क्सः । वानरा एव नृपादेशादविवेष्टन्निति
व्याख्याने स्वातंत्र्येण तेषां कर्तृत्वात्प्रयोजकत्वं न घटते । तांश्च वानरानारूढान्
कुम्भकर्णोऽधावीत् चूतवान् । '२२७९ । स्वरति - ।७।२।४।४।' इत्यादिना इट्र ।
हलवृद्धेः '२२६८। नेटि ।७।१।४।' इति प्रतिषेधः । ते व्याकुलाः सन्तोऽस्रंसिपत
स्त्रस्ताः । पतिता इत्यर्थः । '८०६ । स्रंसु भ्रंसु अवस्रंसने द्युतादिः । परस्मैपदा-
भावान्नाडू ॥
-
१२४३ - अग्रसिष्ट, व्यधाविष्ट, समाश्लिक्षचू च निर्-दयम् ॥
ते चा ऽप्यघोरिपुर् घोरं, रक्तं चा ऽवमिषुर् मुखैः ॥६२ ॥
अग्रसिष्टेत्यादि —– कुम्भकर्णः कांश्चिदग्रसिष्ट ग्रसते स्म । कांश्चिन्निर्दयं समा-
लिक्षत् । १२६२ । लिप आलिङ्गने' । '२३३६। शलः - ।३।१॥४५॥ ' इति क्सः ।
ते चालिष्टा: महाघोरं श्रुतिकटुकं अघोरिपुः शब्दमुक्तवन्तः । १४३३। घुर
भीमार्थ-शब्दयोः' इति तुदादिरनुदात्तेत् । रक्कं चावमिपुः उद्गीर्णवन्तः ॥
१२४४ - स चाऽपि रुधिरैर् मत्तः स्वेषाम॑प्य॑दयष्ट न ॥
अग्रहीच् चा ऽऽयु॒र॑न्ये॒पाम॑रुद्ध च पराक्रमम् ॥६३॥
स चेत्यादि-
इस चापि कुम्भकर्णः रुधिरैर्मत्तः स्वेषामपि नाइष्टि न दयां
कृतवान्, किमपरेपाम् । '६१३ । अधीगर्थ- ।२।३।५२॥ इति पष्ठी । अन्येषां वान-
राणां आयुर्जीवितम ग्रहीत् गृहीतवान् । '२२९९ । हृयन्त । ७१२।५।' इति न वृद्धिः ।
'अदोहीवाऽऽयुः' इति पाठान्तरम् । तत्र तथाभूतं कुम्भकर्णं दृष्टवतामन्येषा-
मायुरदोहीव स्वयं गतमिव । '२७६९ । दुहश्च । ३ । १।६३ ।' इति कर्मकर्तरि चिण् ।
पराक्रमं चान्येषामरुद्ध च आवृतवान् । रुधेः कर्माभिप्राये तङ् । '२२८१ । झलो
झलि ।८।२।२६।' इति सिचो लोपः । '२२८० । झपस्तथोऽधः ।८।२।४०॥
'५२ । झलां जश् झशि ।८।४।५३ । ॥
१२४५ - संत्रस्तानाम॑पाहारि सत्त्वं च वन-वासिनाम् ॥
F
."
अच्छेदि लक्ष्मणेनाऽस्य किरीटं कवचं तथा ॥६४॥