This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'कुम्भकर्ण-वधो' नाम पञ्चदशः सर्गः- ३८७
ल्पेनात्मनेपदम् । अस्य शोणितं च व्यसुस्रुवत् स्रुतम् । '२३१२।णि-त्रि-
१३।११४६।' इत्यादिना चङ् । तं सुग्रीवमादाय राक्षसः कुम्भकर्णः पलायिष्ट
पलायते स्म । व्यरोचिष्ट रोचते स्म । १७९७ / रुच दीप्तौ ॥
 
युग्मम्
 
१२३८ - अभैषुः कपयो, ऽन्वारत् कुम्भकर्ण मरुत्-सुतः ॥
 
शनैर॑वोधि सुग्रीवः, सोऽलुञ्चीत् कर्ण - नासिकम् ५७
अभैपुरित्यादि – तस्मिन्नीते कपयोऽभैपुः भीताः । मस्त्सुतः कुम्भकर्ण-
मन्वारत् अनुगतः । अर्तेः '२३८२ । सर्ति-शास्त्यतिंभ्यश्च ।३।१।५६।' इत्यङ् ।
'२४०६।' ऋदृशोऽङि गुणः ।७।४।१६।' । सुग्रीवः शनैर्मनागबोधि लब्धसंज्ञो
बभूव । '२३२८ । दीप-जन-।३।१।६१॥' इत्यादिना बुधैः कर्तरि चिण् । स
बुद्धः कर्णनासिकम् । प्राण्यङ्गत्वादेकवद्भावः । अस्यालुञ्चीत् कृत्तवान् । राक्षस-
स्येति वक्ष्यमाणेन सम्बन्धः ॥
 
१२३९ - राक्षसस्य, न चा ऽनासीत्, प्रनष्टुर्मयतिष्ट च ॥
अक्रोधि कुम्भकर्णेन, पेष्टुमा॑रम्भ च क्षितौ ॥५८॥
राक्षसस्येत्यादि- राक्षसस्य कुम्भकर्णस्य सम्बन्धे स सुग्रीवो न चात्रा-
सीत् न त्रस्तः । राक्षसात् प्रष्टुं पलायितुम् । १२५१७॥ मस्जि-नशोर्झलि ।
७।१॥६० ।' इति नुम् । अयतिष्ट च यतते स्म । कुम्भकर्णेनात्मनोऽवस्थां दृष्ट्वा
अक्रोधि क्रुद्धम् । भावे लुङ् । क्षितौ च पेष्टुं चूर्णयितुं सुग्रीव आरम्भि आरब्धः
कर्मणि लुङ् । '२५८१ । रभेरशव्लिटोः ।७।१।६३।' इति नुम् ॥
 
१२४० - सुग्रीवो ऽस्या ऽभ्रशर्द्धस्तात्,
समगाहिष्ट चा Sम्बरम् ॥
तूर्णम॑न्वसृपद् राम-
माननन्दच् च वानरान् ॥ ५९ ॥
 
सुग्रीव इत्यादि — अस्य कुम्भकर्णस्य हस्तात् सुग्रीवः अभ्रशत् भ्रष्टः ।
'१३०४ । अशु-अंशु अधःपतने' पुषादिः । स चाम्बरमाकाशमगाहिष्ट आक्रा-
न्तवान् । '६९६ । गाडू विलोडने' अनुदात्तेत् । तूर्णं च राममन्वसृपत् अनुगतः ।
ऌदिवादङ् । वानरांश्च कर्ण - नासिककर्तनेनाननन्दत् तोषितवान् । नन्दुतेर्ण्य-
न्तस्य रूपम् ॥
 
१२४१-अतत्वरच् च तान् योद्धुम॑चिचेष्टच् च राघवौ ॥
 
कुम्भकर्णो न्यवर्तिष्ट, रणेऽयुत्सन्त वानराः ॥६०॥
अतत्वरदित्यादि – तांश्च वानरान् योद्धुमतस्वरत् त्वरयति स्म ' मा विल-
म्बध्वस्' इति । त्वरेर्ण्यन्ताच्चङ् । '२५६६। अत् स्मृ-हृ-स्वर- ।७।४।१५।' इति