This page has not been fully proofread.

भट्टि- काव्ये – प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे प्रथमो वर्गः,
 
ज्ञाताभिप्रायो राजाभिमतं कर्म कारयितुं तस्य नृपस्य कर्म व्यतानीव्याख्धवान् ।
तनोते: २२६८ । नेटि-।७।२।५।' इति हलन्तलक्षणायां प्रतिषिद्धायाम् '२२८४ ।
अतो हलादेः-१७।२।७१' इति विभापावृद्धिः । कर्मठः कर्मणि घटते १८३६।
कर्मणि घटोSठच् ।५।२।३५।' यागऋिगानिष्पादक इत्यर्थः । सुतानुबन्धं सुतान-
नुवनातीति कर्मण्यण् । 'सुतानुबन्धि' इति पाठान्तरम् । सुताननुबद्धुं शीलम-
स्येति । १२९८८ सुप्यजातौ णिनिः-।३।२।७८१' सुपीत्यनुवर्तमाने सुप्ग्रहण-
मुपसर्गनिवृत्त्यर्थमिति केवलस्योपसर्गस्य तिवृत्त्यर्थं दृष्टव्यम् । अन्यथा जाता-
विति किं ब्राह्मणानामन्त्रायतेति न युज्यते । आङित्यस्योपसर्गत्वात् ॥
 
१२ - रक्षांसि वेदीं परितो निरास्थ-
दंङ्गान्य॑याक्षीदभितः प्रधानम् ॥
शेषाण्यहौषीत् सुत-संपदे च,
वरं वरेण्यो नृपतेरमागत् ॥
 
रक्षांसीत्यादि-वेदीं परितो यजलयेद्याः समन्तात् । विनायोपस्थितानि
रक्षांसि । रक्ष्यते येभ्य इत्यसुन् । तानि रक्षोत्रैर्नत्रैर्निरास्यन्चिरस्तवान् । पर्यभि
भ्यां सर्वोभयार्थे तसिल । 'अभितः परित:--' इत्यादिना द्वितीया ॥ अङ्गान्य-
याक्षीदद्भितः प्रधानमिति । यद्देवतामयो यागः सा देवता तत्र प्रधानम् । पुत्र-
फलव्वाद्विष्णुः प्रधानम् । तमिवा । तस्योभयतः पार्श्वयोर्यान्यङ्गानि चक्षुरादीनि
देवतान्तराणि तान्ययाक्षीत् अग्नावाहुत्या पूजितवान् । कर्तुः क्रियाफलाभावा-
तङ् न भवति । घत्वकत्वे ॥ शेपाण्यहौपीदिति स्वानं विष्णुमिवा शेषाणि प्रति-
कृतानि पिष्टकमयानि सुतानां संपदर्थमनौ हुतवान् । जुहोतेः सिचि वृद्धाविटि
च रूपम् । वरेण्यः श्रेष्ठः । वरं चामार्गोन्मार्गितवान् । हे देवा अग्निप्रभृतयः,
नृपतेः सुता भूयासुरिति । १९८९। मार्ग अन्वेषणे' । 'आषाद्वा' इति यदा
णिच् नास्ति तदा चङभावात्सिजेव भवति ॥
 
१३ - निष्ठां गते त्रिम-सभ्य-तोषे
*विहित्रिमे कर्मणि राज-पत्यः ॥
प्राशु॒र् हुतो॒च्छिष्टमु॑दार-वंशयास्
तिस्रः प्रसोतुं चतुरः सु-पुत्रान् ॥
 
-
 
निष्ठामित्यादि — निष्ठां समाप्तिं गते कर्मणि यागक्रियायां समाप्तायां राज-
पत्यो हुतोच्छिष्टं हुतावशेषं शिष्टचरुं प्राशुभक्षितवत्यः । अनोतेर्लिटि उसि
 
१ - * अभितः परितः - समया- निकपा-हा प्रतियोगेऽपि' । २- १२४७ । निष्ठानिष्प.
त्तिनाशाऽन्ताः। इति ना० अ० । ३ - ११६६ / डु-दा- ञ् दाने' । ४ - ११६७ ॥ हुधाञ्
धारणपोषणयोः । दान इत्यप्येके ।" इति धा० पा० ।