This page has not been fully proofread.

३८६ भट्टि- काव्ये – चतुर्थे तिङन्त-काण्डे लक्षण रूपे द्वितीयो वर्गः,
 
न्तस्य रूपम् । तं द्रुमं मामारेः कुम्भकर्णः प्रासहिष्ट प्रसहते स्म । शक्तिं चोग्रां
प्राणहरामुग्रहीत उद्गृहीतवान् ॥
 
१२३४ - स ताम॑विभ्रमद् भीमां,
 
वानरेन्द्रस्य चा Sमुचत् ॥
प्रापतन् मारुतिस तत्र
 
तां चा डलासीद् वियद्-गताम् ॥ ५३ ॥
 
स तामित्यादि-तां गृहीतां शक्तिं स कुम्भकर्णः अबिभ्रमत् भ्रमयति स्म ।
अमेर्ण्यन्ताञ्चङि रूपम् । वानरेन्द्रस्य सुग्रीवस्योपरि अमुचत् मुक्तवान् । हृदित्वा-
ढुङ् । तन्त्र तस्यां मुक्तायां मारुतिर्हनूमान् प्रापप्तत् प्रत्युपस्थितः । ऌढ़िवादङ् ।
'२३५५॥ पतः पुम् ।७।४।१९। इति पुमागमः । तां च वियतामलासीत् आप्त-
वान् । '११३२ । ला आदाने ।' '२३७७ । यम-रम- ।७।२।७३।' इति सगिटौ ॥
युग्मम्-
१२३५ - अशोभिष्टाञ्चखण्डचू च
 
H
 
.
 
शक्तिं वीरो, न चा ऽयसत् ॥
लौह - भार- सहस्रेण
 
निर्मिता निरकारि मे ॥ ५४ ॥
 
अशोभिष्टेत्यादि–असौ गृहीतशक्तिर्वीरः अशोमिष्ट शोभते स्म । शक्तिम-
चखण्डच्च भग्नवान् । '१६९४ । ९५ । खड-खडि भेदने' चौरादिकः । तां च खण्ड-
यन्नायसत् नायस्यति स्म । '१२८६ । यसु प्रयत्ने ।' पुषादिः । लौहभारसहस्रेण
निर्मिता घटिता मम शक्तिर्निरकारि भग्ना अनेनेति रक्षः कुम्भकर्णो कुपदिति
वक्ष्यमाणेन सम्बन्धः ॥
 
१२३६ - शक्तिर॑त्यकुपद् रक्षो, गिरिं चौदखनीद् गुरुम् ॥
 
-
 
व्यसृष्ट तं कपी-न्द्रस्य, तेनाऽमूर्च्छादसौ क्षतः ॥ ५५॥
शक्तिरित्यादि - अकुपत् कुपितः । '१३१२ । कुप क्रोधे' पुषादिः । गिरिं च
गुरुमुदखनीत् उत्खातवान् । '२२८४ । अतो हलादेर्लंघोः ।७।२।७।' इति वृद्ध्य-
भावपक्षे रूपम् । कपीन्द्रस्य सुग्रीवस्योपरि तं च गिरिं व्यसृष्ट विसृष्टवान् ।
'सृज विसर्गे' अनुदात्तेत् । तस्माद्वलन्तादात्मनेपदे सिचः कित्त्चे गुणाभावः ।
असौ कपीन्द्रस्तेन क्षतः हतः सन् अमूर्च्छत् मोहमुपगतः ॥
१२३७ - अलोठिष्ट च भू-पृष्ठे, शोणितं चा ऽप्यसुस्रुवत् ॥
तर्मादायाऽपलायिष्ट, व्यरोचिष्ट च राक्षसः ॥ ५६ ॥
अलोठिष्टेत्यादि-मूर्च्छितश्च भूपृष्ठे अलोठिष्ट लुठते स्म । 'रुठ-लुउ प्रति-
जाते' इति युवादिः । '२३४५॥३।११॥ इति परस्मैपदविक
 
.9