This page has not been fully proofread.

३८४ भट्टि - काव्ये - चतुर्थे तिङन्त काण्डे लक्षण-रूपे द्वितीयो वर्गः,
 
-
 
.
 

 
१२२५ - ऋषभो ऽद्रीनु॑दक्षैप्सीत्, ते तैर॑रिर्मतर्दिषुः ॥
अस्फूर्जीद्, गिरि-शृङ्गं च व्यस्राक्षीद् गन्धमादनः ॥
ऋपभ इत्यादि - ऋपभो नाम कपिरद्वीनुदक्षैप्सी उक्षितवान् । ते शर-
भादयस्तैर्वृक्षादिभिररिमर्दिपुः हृतवन्तः । ५९। तर्द हिंसायाम् ।' गन्धमादनो
नाम कपिरस्फूर्जीत् वज्रमिव । गिरिशृङ्गं च व्यसाक्षीत् विसृष्टवान् । सृजिस्ती-
दादिक उदात्तेत् ॥
 
ww
 
१२२६ - अकुर्दिष्ट, व्यकारीच् च गवाक्षो भू-धरान् वहून्. ॥
स तान् नाऽजीगणद् वीरः कुम्भकर्णोऽव्यथिष्ट न. ४५
अकृर्दिष्टेत्यादि
— गवाक्षो नाम कपिः अकूर्दिष्ट क्रीडापूर्वकं चेष्टते स ।
भूधरान् महीधरांश्च व्यकारीत् विक्षिप्तवान् । वीरः कुम्भकर्णस्तान् शरभादीन्
नाजीगणत् न गणयामास । अजगणदिति पाठान्तरम् । तन्त्र चकारेणात्वमप्यनु.
वर्तते । न चाव्यथिष्ट व्यथितोऽभूत् ॥
 
,
 
१२२७---अमन्थीच् च परा॒ऽनीकम॑ष्ठोष्ट च निर॒ङ्कुशः ॥
निहन्तुं चाsत्वरिष्टाsरीनजक्षीच् चाऽङ्कर्मागतान् ॥
अमन्थीदित्यादि – परानीकं शत्रुसैन्यममन्थत् क्षोभितवान् 'मन्थ विलो.
डने ।' निरङ्कुशवाप्रतिहतशक्तिः अप्लोष्ट भ्रान्तवान् । '१०२६ । लुङ् गतौ' । अरींश्च
वानरानिहन्तुमत्वरिष्ट स्वरते स्म । '८३१ । जित्वरा संभ्रमे ।' अङ्कं च समीपमाग-
तानजक्षीत् भक्षितवान् । '११४५ ॥ जक्ष - भक्ष हसनयोः' इति भक्षणे जक्षिः ॥
१२२८ - व्यक्रुक्षद् वानराऽनीकं, संपलायिष्ट चाऽऽयति ॥
हस्ताभ्यां नश्यकाक्षीद् भीमे चौपाधिताऽऽनने ४७
व्यत्रुक्षदित्यादि -- तस्मिन्नायत्यागच्छति सति, आङ् पूर्वस्येणः शतरि रूपम् ।
वानरानीकं व्यत्रुक्षत् विक्रोशति स्म । '२३३६ । शल इगुपधादनिटः क्सः ।
।३॥।४५॥ संपलायिष्ट पलायते स्म । 'तञ्च नश्यत्पलायमानं हस्ताभ्यामक्राक्षीत्
आकृष्टवान् कुम्भकर्णः । 'कृष विलेखने' । '२४०२ । अनुदात्तस्य च ।६।१।५९ । '
इत्यम् । हलन्तलक्षणा वृद्धि । आकृष्टं चातिभी मेऽतिभयङ्करे विकृते आनने
व उपाधित न्यस्तवान् । धान् । '२३८९ । स्था- ध्वोरिच । १।२।१७। ॥
१२२९ – रक्तेना ऽचिक्किदद् भूमिं,
 
:
 
"
 
सैन्यैश् चा ऽतस्तरद्धतैः ॥
ना ताप्सींदू भक्षयन् क्रूरो,
 
."
 
ना ऽश्रमद् झन् प्लवङ्गमान् ॥ ४८ ॥
रक्तेनेत्यादि – वानरानीकस्य रक्तेन भूमिमचिक्किदत् क्लेदितवान् '१३२१॥
किवूं आभावे ।' तस्य यन्तस्य चाङि रूपम् । सैन्यैश्च हतैर्भूमिमतस्तरत् छादित-