This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'कुम्भकर्ण वधो' नाम पञ्चदशः सर्गः- ३८३
प्रहरणायेत्यर्थात् । '९२६ । प्रोथ पर्याप्तौ ।' पर्याप्तियोगे चतुर्थी न भविष्यति
पर्याप्तेरविवक्षितत्वात् । अतोऽस्मादेवंविधात् कुम्भकर्णात् युवां नृपात्मजौ मा न
भैष्ट किन्तु बिभीतम्। '२२१९। माङेि लुङ् ।३।३।१७५१ मध्यमपुरुषद्विवचने
रूपम् । माशब्दः प्रतिषेधे ॥
 
१२२२-घ्नन्तं मौपेक्षिपाथां च, मा न कर्ष्टमि॑िहाऽऽदरम् ॥
 
13
 
'अमुं मा न बधिष्ठे'ति रामोऽवादीत् ततः कपीन्. ४१
घ्नन्तमित्यादि – तस्मात् नन्तनेनं युवां मोपेक्षिषायां मोपेक्षको भूतमि-
त्यर्थः । इह च कुम्भकर्णे आदरं मा न काट अपि तु कुरुतम् । ततो विभीषणव-
चनानन्तरं रामः कपीनवादीत् उक्तवान् । अमुं कुम्भकर्ण मा न वधिष्ट इति
किन्तु तेति । '२४३३ । हनो वध लुङि ।२।४।४२॥ ॥
१२२३ ते व्यरासिषुराह्वन्त राक्षसं चा ऽप्यपिष्ठवन्,
 
अवभासन् स्वकाः शक्तीर्, द्रुम-शैलं व्यकारिषुः ४२
 
K
 
त इत्यादि — ते वानराः हर्षाव्यरासिपुः किलकिलाशब्दं कृतवन्तः । '२२८४
अतो हलादेः- ।७।२।७।' इति वृद्धिः । राक्षसं च कुम्भकर्णमाहन्त स्पर्धमाना
आहूतवन्तः । '२४१९। आत्मनेपदेष्वन्यवरस्याम् ।३।१।५४॥ इति ह्वेनः पक्षे
अङ् । अपिप्लवन् प्लावितवन्तः । अपिः शब्दार्थे । तथा कृतवन्तः यथासौ लुतिं
कर्तुमारव्धः प्लवतेर्ण्यन्तस्य चङि सन्वत्कार्यमिति । '२५२८ । स्रवति शृणोति-
।७।४।८१।' इत्यादिना अभ्यासस्येत्वम् । स्वका आत्मीयाः शकीस्वभासन् प्रकाश-
यन्ति स्म । भासेर्ण्यन्तस्य चङि '२५६५॥ भ्राज-भास - ।७।४।३।' इत्यादिना उपधा.
इ॒स्वविकल्पः। द्रुमाश्च शैलाश्च द्रुमशैलम् । '९१० । जातिप्राणिनाम् ।२।७४६
इत्येकवद्भावः । व्यकारिषुः तदुपरि क्षिप्तवन्तः । '१०५३॥ कृ विक्षेपे' ॥
 
१२२४ ते तं व्याशिषता ऽक्षौत्सुः
 
पादैर, दन्तैस् तथा ऽच्छिदन्. ॥
आर्जिजत् शरभो वृक्षं,
नीलस् त्वा sऽदित पर्वतम् ॥ ४३ ॥
 
ते तमित्यादि – ते वानरास्तं राक्षसं व्याशिषत व्याप्तवन्तः । '१३४५। अझू
व्याप्तौ ।' पादैश्चाक्षौत्सुः पिष्टवन्तः । १५२७ । क्षुदर् सम्पेषणे ।' दन्तैरच्छिदन्
छिन्दन्ति स्म ।'२२६९ । इरितो वा ।३।१।५७१' इत्यङ् । शरभो नाम कपिवृक्ष-
मार्जिजत् ग्रहीतुं यतते स्म । '१८५८ अर्ज प्रतियत्ने' इति स्वार्थिकण्यन्ताच्चङि-
'२२४३ । द्विर्वचनेऽचि ।१।१।५९। इति स्थानिवद्भावात् ८ २१७६ । अजादेर्द्विती-
यस्य ।६।१।२।' इति द्विवचनम् । रेफस्य '२३४६ । नन्द्राः ।६।१॥३।' इति प्रति-
षेधः । नीलः पर्वतमादित गृहीतवान् । '२३८९ । स्था-ध्वोरिञ्च ॥।२।१७॥ ॥