This page has not been fully proofread.

३८२ भट्टि - काव्ये – चतुथे तिङन्त-काण्डे लक्षण-रूपे द्वितीयो वर्गः,
१२१७ - प्राचुचूर्णच् च पादाभ्याम॑विभीपत च द्रुतम्, ॥
अतींच् चैव शूलेन कुम्भकर्णः प्लवङ्गमान् ॥३६॥
प्राचुचूर्णदित्यादि-पाड़ाभ्यां प्राचुचूर्णत् पिष्टवान् । '१६५७। चूर्ण प्रेरणे'
इति चुरादिः । एवं चूर्णयन् द्रुतमविभीषत भीपयते स्म । २५९५ । भियो हेतु-
भये पुक्।७।३।४०।' । '२५९४ । भी स्म्योर्हेतुभये ॥३।६८।' इति तल । शुलेन
ग्रहरणेन अतींच्च विद्धवान् । '१५४९॥ तृह हिंसायाम् ।' त्र्यन्तत्वान्न वृद्धिः ॥
 
१२१८ - अतौत्सीद् गदया गाढम॑पिषच् चौपगूहनैः ॥
 
"
 
3
 
जानुभ्याम॑दमीच् चाऽन्यान्, हस्त॑ वर्तम॑वीवृतत् ॥
अतौत्सीदित्यादि-कांश्चिद्गदया गाढमतौत्सीत् व्यथितवान् । उपगूहुनै-
रविपत् चूर्णितवान् । ऌढ़िवादङ् । अन्यांश्च जानुभ्यां अमीत् शासितवान् ।
अवष्टभ्य नियमितवा नित्यर्थः । ह्यन्तत्वान्न वृद्धिः । हस्तवर्तमवीवृतत् हस्ताभ्यां
वर्तितवान् पिष्टवानित्यर्थः । वृतेर्ण्यन्तात् '३३६० । हस्ते वर्ति ग्रहोः । ३।४।३१।
इति णमुल । '३३६६ । कपादिषु यथाविध्यनुप्रयोगः ।३।४।४६ । ॥
१२१९ - अदालिपुः शिला देहे,
चूर्ण्यभूवन् महा-द्रुमाः ॥
क्षिप्तास् तस्य न चा ऽचेतीत्
 
M
 
-
 
तान सौ, ना ऽपि चा ऽक्षुभत् ॥ ३८ ॥
अदालिपुरित्यादि – वानरैस्तस्य देहे क्षिप्ताः शिला अदालपुर्विशीर्णाः ।
८५८९ । दल विशरणे ।' भौवादिकः । लान्तत्वाद्वृद्धिः । महाद्रुमा चूर्ण्यभूवन्
चूर्णीभूताः । न च तान् क्षिप्तानसौ कुम्भकर्णो अचेतीत् चेतितवान् । '३९॥ चिती
संज्ञाने ।' नापि चाक्षुभत् क्षुभितः । १३१८। क्षुभ संचलने' दिवादिः ॥
१२२० - अद्राष्टां तं रघु-व्याघ्रौ आख्यच् चैनं विभीषणः ॥
तं
'एष व्यजेष्ट देवेन्द्र नाऽशङ्किष्ट विवस्वतः ॥३९॥
अद्राष्टामित्यादि —तं तादृशा रघुव्याघ्रौ रामलक्ष्मणावद्राष्टां दृष्टवन्तौ ।
विभीषणश्चैनमाख्यत् कथितवान् 'कुम्भकर्णोऽयम्' इति
 
'२४३८। स्यति-
।३।१॥५२॥' इत्यादिनाऽङ्ग । 'प्रभावं चास्य कथयन्नाह - देवेन्द्रमेष व्यजेष्ट
विजितवान् । '२६८५ । वि-पराभ्यां जेः ।१।६।१९।' इति तङ् । विवस्वतः सूर्यात्
नाशङ्किष्ट न शङ्क्ते स्म ॥
 
M
 
१२२१ - यक्षेन्द्र - शक्तिमच्छासीन्, ना ऽप्रोथीद॑स्य कञ्चन ॥
कुम्भकर्णान्न भैष्टंमा युवाम॑स्मान् नृपऽऽत्मजौ ॥
 
"
 
यक्षेत्यादि – यक्षेन्द्रस्य कुबेरस्य शक्ति प्रहरणमच्छासीत् खण्डितवान् ।
'१२२१॥ छो छेदने ।' अस्य तु कश्चन कश्चित नाप्रोधीत न पनवि था।