This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'कुम्भकर्ण-वधो' नाम पञ्चदशः सर्गः- ३८१
आदेशसकारस्य षत्वं टुत्वं च । अपरेऽम्वुधौ न्यमाङ्गुर्निमनाः '२५७७॥ मस्जि-
नशोर्झलि ।७।१॥६०।' इति नुम् । मरुजेरन्त्यात्पूर्व नुममिच्छन्ति । अनुषङ्गसंयो-
गादिलोपार्थम् ॥
 
१२१३ – अन्ये त्य॑लङ्घषुः शैलान्, गुहास्व॑न्ये न्यलेषत, ॥
केचिदा॑सिपत स्तब्धा, भयात् केचिदंघृणिषुः ॥३२॥
अन्ये त्वित्यादि — अन्ये शैलानलङ्घिषुः भयादारूडा इत्यर्थः । अन्ये गुहासु
न्यलेपत । '१२१४। लीङ श्लेषणे' । केचित् स्तब्धाः स्थाणुवदासिषत आसते ।
अपरे भीत्या भयात् अघूर्णिषुः घूर्णन्ते स्म ॥
 
१२१४ -
 
उदातारिषु॑रम्भो-धिं वानराः सेतुना ऽपरे, ॥
 
अलजिष्टाऽङ्गदस् तत्र, प्रत्यवास्थित चौर्जितम् ३३
उतारिपुरित्यादि — अपरे वानराः सेतुना अम्भोधिमुदृतारिपुः उत्तीर्णाः ।
तत्र तेषु तथाभूतेष्वङ्गदोsलजिष्ट लज्जते स्म । ऊर्जितं च पराक्रमं प्रत्यवास्थित
प्रतिपन्नवान् । '२६८९ । समवप्रविभ्यः स्थः ।१।३।२२॥ इति तङ् । '२३६९ ।
हस्वादङ्गात् ।८।२।२७।' इति सिचो लोपः ॥
 
१२१५ - सत्त्वं समदुधुक्षच् च वानराणाम॑युद्ध च ॥
 
ततः शैलानु॑दक्षैप्सुरुदगुरिपत दुमान् ॥ ३४ ॥
सत्त्वमित्यादि - वानराणां सत्त्वं समदुधुक्षत् सन्दीपितवान् । धुझेः सन्दी-
पनार्थात् ण्यन्ताच्लेश्चङ् । स्वयमयुद्ध च युध्यते स्म । '२२८१ । झलो झलि
।७।२।२६।' इति सिचो लोपः । ततः सत्त्वध्रुक्षणानन्तरं वानराः शैलानुदक्षैप्सुः
उत्क्षिप्तवन्तः । हलन्तलक्षणा वृद्धिः । द्रुमांश्चोदगुरिषत उत्थापितवन्तः । '१८२६।
गूरी उद्यमने' ॥
 
१२१६ - अनर्दिषुः कपि-व्याघ्राः,
 
सम्यक् चा ऽयुत्सताऽऽहवे, ॥
तान॑मर्दीद॑खादीच॒ च,
 
निरास्थच् च तऽऽहतान् ॥ ३५ ॥
 
अनर्दिषुरित्यादि-उत्क्षिप्तशैलद्रुमाः कपिव्याघ्रा अनर्दिषुः नर्दितवन्तः
'दृष्टोऽस्माभिः क्व यास्यसि' इति । सम्यक् निर्भयमाहवे अयुत्सत युध्यन्ते स्म ।
'२६१३ । हलन्ताञ्च ।१।२।१८।' इति सिचः कित्त्वे गुणाभावः । तान् प्लवङ्गमान्
युध्यमानान् कुम्भकर्णोऽमर्दीत् मृदितवान् । मृदेर्लघूपधगुणः । अखादीच्च भक्षि-
तवान् । हस्ततलेनाहतान् निरास्थत् इतस्ततः क्षिप्तवान् । '२४३८ । अस्यति
–।३।१॥५२।' इत्यादिना अङ् । '२५२०॥ अस्यतेस्थुक् ।७।४।१७।' ॥