2023-02-15 17:22:50 by ambuda-bot
This page has not been fully proofread.
३८० भट्टि - काव्ये – चतुर्थे तिङन्त-काण्डे लक्षण-रूपे द्वितीयो वर्गः,
थामाङः ।३।३।३१।' इति तङ् । '२४२९ । आत्मनेपदेष्वन्यतरस्याम् ।३।१।५४
इत्यङभावपक्षे रूपम् ॥
;
१२१० - प्राशीन् न चा ऽतृपत् क्रूरः,
क्षुच् चाऽस्याऽवृधर्दश्नतः ॥
अधाद् वसाधासीच च
रुधिरं वन-वासिनाम् ॥ २९ ॥
प्राशीदित्यादि
- ग्राशीत् भक्षितवान् । वनवासिन इत्यर्थात् । न चासौ
क्रूरः दुष्टचेता अतृपत् तृप्तवान् । पुपादित्वादङ् । अनतोऽप्यस्य खादतः क्षुत्
बुभुक्षा अवृधत् वर्धते स्म । '८१२ । वृधुवृद्धौ हुतादिः । वनवासिनां वान.
राणां वसामधात् पीतवान् । '२३७६ । विभाषा घ्रा धेट्-।२।४।७८ ।' इति सिचो
कूप रूपम् । रुधिरं चाधासीत् । '२३७५ । विभाषा धेटू-श्वयोः ।३।११४९॥
इति चङभावपक्षे रूपम् ॥
१२११ - मांसेना ऽस्या ऽश्वतां कुक्षी,
,
जठरं चा ऽप्य॑शिश्वियत् ॥
बहूनाम॑ग्लुचत् प्राणा-
नग्लोचीच् च रणे यशः ॥ ३० ॥
•
मांसेनेत्यादि
— वनवासिनां मांसेनास्य कुम्भकर्णस्य कुक्षी उदरपाऔँ अश्वतां
शूनौ । '२२९१ । जृ-स्तम्भु ।३।११५८ ।' इत्यादिना अङ् । '२४२१॥ श्वयतेरः।
७१४।१८।' इत्यत्वम् । जठरं चोदरमशिश्वियत् शूनम् । '२३७५ । विभाषा धेटू.
योः ।३।१॥४९॥ इति चङ् । इयङादेशः । बहूनां वनवासिनां प्राणानग्लुचत्
हृतवान् । '२०६। ग्रुचु-ग्लुचु-कुजु-खजु स्तेयकरणे' । '२२९१। जृ-स्तम्भु–।३।१॥५८।'
इत्यादिना अविकल्पनादङभावपक्षे रूपम् । यशश्च बहूनां रणे अग्लोचीत् अप-
नीतवान् । 'वञ्जु चञ्चु' इत्यादौ ग्लुचिर्गत्यर्थः । अङभावपक्षे रूपम् ॥
१२१२ - सामर्थ्य चा ऽपि सो ऽस्तम्भीद्
विक्रमं चाऽस्य ना ऽस्तभन्, ॥
शाखिनः केचिद॑ध्यर्
न्यमाङ्क्षुरंपरे ऽम्बु धौ ॥ ३१ ॥
सामर्थ्य मित्यादि-
- स कुम्भकर्णः केषांचिद्दलवतामपि वनवासिनां साम-
र्थ्यमस्तम्भीत् नियमितवान् । अङभावपक्षे रूपम् । विक्रमं च केचिदस्य नास्तभन्
नियमितवन्तः । अकूपक्षे रूपम् । कित्यनुनासिकलोपः । केचिद्भयाद् वृक्षान-
ध्यछुः अधिष्ठितवन्तः । तिष्ठतेः '२२२३ । गाति-स्था- । २।४।७७।' इति सिचो हुन् ।