This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'कुम्भकर्ण-वधो' नाम पत्रदशः सर्गः- ३७९
 
सिंहाः प्रादुद्रुवन् भीताः,
प्राक्षुभन् कुल पर्वताः ॥ २५ ॥
 
अनंतीदित्यादि-अस्य भरेण भूरनंसीत् नता । ' २३७७॥ यम-रम-
।७।२।७३॥ इति सगिटौ । रंहसा वेगेन शाखिनो वृक्षा अलुटन् पतिताः । '३५७ ।
रूठ लुट प्रनिवाते' । धुतादित्वादङ् । युतादीनामनुदात्तत्त्वात्तडू । ८२३४५॥
बुभ्यो टुङि ।१।३।११।' इति परस्मैपदविकल्पः । सिंहाः भीताः सन्तः प्रादु-
ब्रुवन् पलायिताः । '१३१२ । णि-श्रि -१३।१।४८।' इलादिना चङ् । कुलपर्वताः
प्राक्षुभन् संचलिताः । तादित्वा । पूर्ववनात्मनेपदम् ॥
 
,
 
१२०७ - उत्पाताः प्रावृत॑स् तस्य, द्यौरशीकिष्ट शोणितम् ॥
वायवोऽवासिषुर् भीमाः, क्रूराश् चाडकुपत द्विजाः, २६
उत्पाता इत्यादि — तस्य गच्छत उत्पाताः प्रावृतन् प्रवृत्ताः । १८११
वृतु वर्तने' धुतादिः । द्यौः शोणितमशीकिष्ट सिञ्चति स्म । '७७ । शीकू सेचने'
अनुदात्तेत् । वायवो भीमाः प्रचण्डा अवासिपुर्वान्ति स्म । '२३७७ । यम-रम-
१७७२।७३।' इति सगिटौ । क्रूराश्चाशुभसूचका द्विजाः पक्षिणोऽकुषत शब्दिताः ।
'१४९४ । कुडू शब्दे' इत्यानिट् । कुटादित्वात् सिचः कित्वे न गुणः ॥
 
१२०८ - अस्पन्दिष्टा ऽक्षि वामं च,
घोराश् चा Sराटिषुः शिवाः ॥
न्यपतन् मुसले गृध्रा,
 
3
 
दीप्तया sपाति चोल्कया. ॥ २७ ॥
 
अस्पन्दिष्टेत्यादि – वामं चास्याक्षि अस्पन्दिष्ट स्पन्दते स्म । घोराः अनि-
प्रशंसिन्यः शिवाः अराटिपू रटन्ति स्म । '३३८४ । अतो हलादेः-१६।२।७।'
इति वृद्धिविकल्पः । गृध्रा मुसले न्यपतन् उपविष्टवन्तः । हृदित्त्वादङ् । '३२५५॥
पतः पुम् ।७।४।१९।' इति पुमागमश्च । दीप्तया उल्कया अपाति पतितम् ।
भावे चिणादेशः ॥
 
१२०९ - आंहिष्ट तानं संमान्य दर्पात् स प्रधन- क्षितिम् ॥
 

 
ततोऽनर्दीदनन्दीच् च, शत्रूना॑ह्रास्त, चाऽऽहवे. २८
आंहिष्टेत्यादि — तान् उत्पातान् कुम्भकर्णोऽसंमान्य दर्पादवज्ञाय प्रधन-
क्षितिं युद्धभूमिमांहिष्ट गतवान् । तत उत्तरकालं अनर्दीत् गर्जितवान् 'क्व यास्य-
थेदानीम्' इति । अनन्दीच्च जयश्रियं धितवानित्यर्थः । आहवे संग्रामे
शत्रूनाह्वास्त आहूतवान् 'आगच्छत, युध्यध्वम्' इति । '२७०४ । स्पर्धा-
१- '१२३६ । दन्त - विप्राइण्डजा द्विजाः ॥"