This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'कुम्भकर्ण वधो' नाम पञ्चदशः सर्गः-३०७
१९९९ - सन्धान कारणं तेजो न्यगंभूत् ते, कृथासू तथा ॥
 
यत् त्वं वैराणि कोशं च सह-दण्डम॑जिग्लपः.' १८
सन्धानेत्यादि — तथा त्वमकृथाः कृतवानसि । २५१७ । तनादिभ्यस्त-
यासोः १२।४।७९।' इति सिचो लुक् । यथा सन्धानकारणं सन्धानहेतुकं यत्तव
तेजः प्रचण्डत्वं तत् न्यगभूत् न्यग्भूतम् । '२३२३। गाति-स्था- २१४१७७′
इति सिचो लुक् । कुत इत्याह । यत्त्वं वैराणि शत्रुभावान् कोशं च सहदण्डं
ससैन्यमजिग्लपः ग्लपितवानसि । ग्लायतेणौं पुकि 'ग्ला-स्ना-वनु-वमां च'
इति मित्त्वात् हस्वत्वम् । ग्लापयतेश्चङि रूपम् । यदि हि तेजो भवेत् सर्व
तथावस्थितमेव स्यात् ततश्च तेजसो ऽभावात् कथं सन्धानं द्वयोः परस्परानुप-
तापात् । यथोक्तं यावन्मानमुपकुर्यात् तावन्मानमेवास्य प्रत्युपकुर्यात् । तेजो हि
सन्धानकारणं तप्तं लोहं तप्तेन लोहेन सन्धत्त इति ॥
 
१२०० - अक्रुधच् चाऽभ्यधाद् वाक्यं कुम्भकर्ण दशाननः ॥
 
'किं त्वं माम॑जुगुप्सिष्ठा, नैदिधः स्व-पराक्रमम्. १९
अक्रुधदित्यादि — अथैवमुक्ते दशाननः अक्रुधत् क्रुद्धवान् । पुषादित्वादङ् ।
क्रुद्धश्च कुम्भकर्णमभ्यधात् अभिहितवान् । '२२२३ । गाति-स्था ।२।४॥७७ । इति
सिचो लुक् । किमिति त्वं मां अजुगुप्सिष्टाः निन्दितवानसि । स्वविक्रमं नैदिधः
न वर्धितवानसि । एवधातोर्ण्यन्तस्य चडि स्थानिवद्भावात् '२१७६ । अजादेवि
तीयस्य । ६।१।२।' इति धिशब्दो विरुच्यते ॥
 
१२०१ मौज्जिग्रहः सु-नीतानि, मा स्म कंस्था न संयुगे ॥
मौपालब्धाः कृतैर् दोषैर् मा न वाक्षीर् हितं परम्. २०
 
-
 
मोजिग्रह इत्यादि – सुनीतानि सुनयान् मा उजिग्रहः मा उग्राहय ।
अहेर्ण्यन्तस्य चङि रूपम् । संयुगे युद्धे विषयभूते मा क्रंस्था मोत्साहं न कार्षीः
अपि तूत्सहस्त्र । '३२२० । स्मोत्तरे लङ् च ।३।३।१७६।' इति चकाराल्लुङ ।
'२७११। वृत्ति-सर्ग-।१।३।३८।' इत्यादिना क्रमेः सर्गे उत्साहे तङ् । दोषैः अस्म-
स्कृतैः मोपालब्धाः मोपालभव । '२२८१ । झलो झाले ।८।२।२६।' इति सिचो
लोपः । '२२८०। झषस्तथोर्धो धः ।८।२।४०॥' '५२ । झलां जश झशि ।८।४।५३॥'
हितं परं कार्यस्य मा न वाक्षीः मा न वह किन्तु वह । वहेरनिटो हलन्तलक्षणा
वृद्धिः । ढत्वकत्वषत्वानि ॥
 
१२०२ - कुम्भकर्णस् ततो ऽगर्जीदू,
 
भटांश् चा ऽन्यान् न्यवीवृतत् ॥
उपायंस्त महाऽस्त्राणि,
निरगाच् च द्रुतं पुरः ॥ २१ ॥