This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके श्री राम - संभवो नाम प्रथमः सर्गः-
-
 
१० - पुत्रीयता तेन वरा॒ऽङ्गनाभि-
रोनायि विद्वान् ऋतुषु क्रियावा॑न् ॥
विपक्रिम-ज्ञान-गतिर् मनस्वी
मान्यो मुनिः स्वां पुरमृ॑ष्य-शृङ्गः ॥
 
पुत्रीयतेत्यादि — पुत्रीयतात्मनः पुत्रमिच्छता । इच्छायाम् '२६५७। सुप
आत्मनः क्यच् ।३।१।८।' इति क्यच् । '२६५८ । क्यचि च । ७ । १४ । ३३ ।' इतीत्वम् ।
तेन राज्ञा प्रयोजककर्त्रा वराङ्गनाभिर्वरस्त्रीभिः प्रयोज्यकर्त्रीभिरानायि स्वां
पुरमिति योज्यम् । 'नी- वह्योः' इत्यादेरपि '५३९ । अकथितं च ।१॥४॥५१॥
इति चकारेण संगृहीतत्वान्नयतिर्द्विकर्मकः । तत्र प्रधानकर्मणि लुङ् । चिपिण-
लोपौ ' २३२९ । चिणो लुक् । ६।४।१०४॥ इति तशव्दस्य लुक् । गुणकर्मणि तु
पुरमिति द्वितीया । '५४० । गति- बुद्धि-।१।४।५२।' इत्यादिना प्रयोज्यकर्तरि
द्वितीया न भवति । 'नी - वह्योः प्रतिषेधः' इति वचनात् । विद्वान्वेदार्थतत्त्ववित् ।
एवं च कृत्वा ऋतुषु क्रियावान्प्रशस्तक्रियः । प्रशंसायां मतुप् । विपक्त्रिमज्ञा-
नगतिरिति विपाकेन निर्वृत्तम् । पचतेः क्त्रिः क्त्रेर्मप् । यत्पूर्वजन्मकृतमनिवर्त-
नीयं कर्म तस्योग्रतपःप्रत्ययाद्विनोपदेशाज्ज्ञानात्प्रवृत्तिर्बुद्धावस्य जातेत्यर्थः ।
मनस्वी प्रशस्तमनाः । प्रशंसायाम् १९२८ अस्माया- मेधा ।५।२।१२१॥'
इत्यादिना विनिः । मान्यो मानार्हः । '२८२२ । अर्हे कृत्यतृचश्च । ३।३।१६९।१
इति ण्यत् । धर्मादिमननान्मुनिः । 'मनेरुच्चोपधायाः' इति इन् । उपधाया
उकारः । ऋष्यस्य शृङ्गमृष्यशृङ्गं तच्छृङ्गमिव शृङ्गं यस्य स ऋष्यशृङ्गः ।
'सप्तम्युपमान -' इत्यादिनोत्तरपदलोपी समासः ॥
 
-
 
११ - ऐहिष्ट तं कारयितुं कृता॒ऽऽत्मा
ऋतुं नृपः पुत्र फलं मुनीन्द्रम् ॥
 
,
 
ज्ञाना॒ऽऽशयस् तस्य ततो व्यतानीत्
स कर्मठ: कर्म सुताऽनुबन्धम् ॥
 
ऐहिटेत्यादि-तं मुनीन्द्रं क्रतुं कारयितुं नृप ऐहिष्ट इंहितवान् । ईहतेरा-
त्मनेपदिनो लुङि सेट्त्वादिटि च रूपम् । द्विकर्मकता तु '५४१ । हृ-कोरन्यतर-
स्याम् । १।४।५३।' इति । कृतात्मा वशीकृतात्मेति भावः । पुत्रफलं पुत्रः फलं
कार्यं यस्य ऋतोः ॥ तत उत्तरकालम् । स मुनिः परचित्तज्ञत्वाज्ज्ञाताशयो
 
१ – '२०६३ । क्रियावान् कर्मसूद्यतः ।" इति ना० अ० । 'भूमनिन्दाप्रशंसासु
नित्ययोगेऽतिशायने । संवन्वेऽस्तिविवक्षायां भवन्ति मतुबादयः ॥' इति वै० भ० ।
.२ ६७५ । ईंह चेष्टायाम् ' इति धा० पा० । ३ - १०६३ । कर्मशूरस' तु कर्मठः ।
 
इति ना० अ० ।