This page has been fully proofread once and needs a second look.

श्री-भट्टिकाव्य-सुधारणा--
 
१. यद्यपि बहु नाघीपे तथापि पठ पुत्र ! व्याकरणम् ।
स्वजनः श्वजनो मा भूत् सकलं शकलं सकृत् शकृत् ॥
 
२. अ-विदित-श-ष-स-विशेषा वाणी वक्त्रात् विनिर्गता येषाम् ।
गुद-वदन-विवर-भेदो रदनैरेवोपलक्ष्यते तेषाम् ॥
 
३. अष्टाध्यायी जगन्माता,ऽम-कोशो जगत्पिता ।
भट्टि-काव्यं गणेशश्च त्रयीयं सुख-दाऽस्तु वः ॥
 
४. शब्द-वाक्य-पद-च्छेद-स्थूला॒क्षर-विशेषदृक् ।
सुधारकैः सुधार्यासौ पुस्तक-स्थापने यदि-- ॥
 
५. स्थाप्यते गद्य-पद्येषु सच्छात्रानुग्रहेच्छया, ।
मूला[^३]देवा[^४]र्थ-सिद्धिः स्यात् किं टीकायाः प्रयोजनम् ॥
 
६. अ-संस्कारं वि-कोशं चा॑ऽपच्छन्दश्चानलङ्कृति |
नीरसं तद्भवेत्काव्यमित्याहुः काव्य-कोविदाः ॥
 
७. व्याकृत्या कोश -छन्दोभ्यामलङ्कृत्या रसेन च |
पञ्चकेनान्वितं काव्यं भट्टि-काव्यं विराजते ॥
 
८. व्याकृति-चषके पेयं राम-राज-कथामृतम् ।
शब्द-वाक्य-पद-च्छेद-स्थूला॒क्षर विशेषदृक् ॥
 
९. सर्वेषामेव ग्रन्थानामेवं भाव्या सुधारणा ।
अन्ततः शिक्षण-ग्रन्था अप्येवं स्युः सुधारिताः ॥
 
कै॰ वि॰ ना॰ शा॰.
 
[१] (छापणें).
[२] (छापली जाते).
[३] मूलग्रन्थात्, पक्षे बाल-शिष्यात्.
[४] भाषा-
न्तरम्, पक्षे स्पष्टम्.