This page has not been fully proofread.

३७६ भट्टि- काव्ये – चतुर्थे तिताण्डे लक्षण-रूपे द्वितीयो वर्गः,
 
'३४६० । विभाषा लुइ-ङोः ।२।४/५०/' इति इङो गादेशः । न च हितं प्रय-
पत्थाः प्रतिपन्नवानसि । '१२४४ । पद गतौ' । '२२८१ । झलो झलि ।८।२।२६।
इति सिचो लोपः ॥
 
११९६ - मूर्खास् त्वाम॑ववञ्चन्त, ये विग्रहमचीकरन्, ॥
 
अभाणीन् माल्यवान् युकर्मक्षंस्थास् त्वं न तन् मदात् १५
मूर्खा इत्यादि मूखीः सर्व एवैते त्वामववञ्चन्त विप्रलव्धवन्तः । '१८३६।
वज्ञ्चू प्रलम्भने' ण्यन्तस्य '२७३९। गृहि-वञ्चि-।१।३।६९॥ इत्यादिना तङि चङि
रूपम् । ये विग्रहमचीकरन् कारितवन्तो भवन्तम् । एप मातामहो माल्य-
वान् युक्तमभाणीत् भणितवान् ८४७७॥ भण शब्दे ।' । '२२६६ । इट ईटि
।८।२।२८॥ इति सिचो लोपः । तत् त्वं मदान्नाक्षंस्थाः न सोढवानसि । '४७२ ।
क्षमू सहने ।' ॥
 
११९७ - राघवस्या ऽमुषः कान्तामा॑प्तैरु॑क्तो न चाsपिंपः ॥
मा नाऽनुभूः स्वकान् दोषान्, मा मुहो मा रुषोऽधुना. १६
राघवस्येत्यादि — प्रमादित्वमपि तेऽस्ति । यतो राघवस्य कान्तां अमुषः
खण्डितवानसि । खण्डनं चास्या इदं यद्भत्री वियोजनम् । 'मुस खण्डने ।'
पुषादिस्वाद पुपादयश्च गणान्ता गृहीताः । आतैविभीपणादिभिरुक्तो न चार्पिपः
नार्पितवानसि कान्ताम् । अर्ते '२५७०। अर्ति-ही- । ७।३।३६ ।' इत्यादिना
पुगन्तगुण: । चडि '२२४३ । द्विर्वचने ऽचि १११११५९॥ इति स्थानिवद्भावात्
'२१७६ । अजादेर्द्वितीयस्य । ६।१।२।' इति पिशब्दो द्विरुच्यते । रेफस्य '२४४६ ।
नन्द्राः ।६।१।३।' इति प्रतिषेधः । तदधुना स्वकानात्मीयान्दोषान् दुश्चरितानि
मा नानुभूः, अपि त्वनुभव । २२१९ । माडि लुङ् ।३।३।१७५॥ । '२२२३ ।
गाति-स्था ।२।४॥७७।' इति सिचो लुक् । मा मुहः मोहं मा गमः । मा रुषः
रोषं मा कार्षीः । मुहिरुषिभ्यां पुषादित्वाद ॥
 
१९९८ - तस्याऽप्य॑त्यक्रमीत् कालो, यत् तदाऽहम॑वादिषम् ॥
अघानिषत रक्षांसि परैः, कोशांस् त्वमव्ययीः १७
 
तस्येत्यादि — यत्तदा तस्मिन् कालेऽहमवादिषं अभिहितवानस्मि । 'रामः
सन्धीयताम्' इति तस्यापि सन्धेः कालो ऽत्यक्रमीदतिक्रान्तः । '२२२३। नुक्र-
मोरनात्मनेपदनिमित्ते ।७।२।२३६।' इतीट् । मान्तत्वाद्वृद्धिप्रतिषेधः । यतः परैः
शत्रुभिः रक्षांस्यघानिषत हतानि । चिण्वद्भावाद्वृद्धिघत्वे । त्वं च कोशमव्ययीः
त्यक्तवानसि । लङ्कादाहे तस्यारक्षितत्वात् । '२०८२ । व्यय वित्तसमुत्सर्गे' इति
सुरादौ पठ्यते । यदा 'आटषाद्वा' इति णिज नास्ति तदा रूपम् । '२२९९ ॥
इयन्त ।७।२॥५॥' इत्यादिना वृद्धिप्रतिषेधः । 'व्यय गतौ' इत्यस्यापि रूपम् ।
अनेकार्थत्वाद्धातूना मुत्सर्जनेऽपि द्रष्टव्यम् ॥