This page has not been fully proofread.

३७४ भट्टि- काव्ये – चतुर्थी तिङन्त-काण्डे लक्षण-रूपे द्वितीयो वर्गः,
 
–।२।३।६९।' इति षष्टीप्रतिषेधः । स कुम्भकर्णः श्रुत्वा अस्त्रासीत् स्नातवान् ।
'२३७७। यस-रम–१७:२।७३ ।' इत्यादिना सगिटौ । व्यलिपत् समालिप्तवान् ।
'२४१८ । लिपिसिचि-।३।१।५३।' इत्यङ् । मांसमप्सासीत् '११२९॥ प्सा भक्षणे ॥
वारुणीमपात् पीतवान् । '२२२३ । गाति-स्था । २ ॥४॥७७) इति सिचो लुक् ॥
१९८८ - न्यवसिष्ट ततो द्रष्टुं रावणं, प्रावृतत् गृहात् ॥
 
राजा यान्तं तम॑द्राक्षीदुदस्थाच् चैपासनात् ॥ ७ ॥
न्यवसिऐत्यादि — ततो रावणं दृष्टुं न्यवसिष्ट पूर्वनिवसितं वसनं त्यक्त्वा
अन्यहस्रं परिदधाति स्म । गृहात् स्वस्मात्प्रावृतत्प्रवृत्तः । २३४५ । सुभ्यो लुहि
।१।३।९१।' इति परस्मैपदम् । '२३४३ । पुपादि-।३।१।५५।' इत्यादिना अङ् ।
तमायान्तं राजाद्वाक्षीत् दृष्टवान् । '२४०५। सृजिदृशो:- ।६॥५८।' इत्यम्
हलन्तलक्षणा वृद्धिः । आसनाच्च ईपदुदस्थात् उत्थितः । अर्ध्वकर्मकत्वादात्मने-
पढ़ न भवति ॥
 
११८९ - अतुषत्, पीठमा॑सन्ने निरदिक्षच् च काञ्चनम् ॥
अस्मेष्ट कुम्भकर्णोऽल्पमु॑पाविदथा ऽन्तिके. ॥ ८ ॥
अनुपदित्यादि- दृष्ट्वा चातुषत् तुष्टः । पुषादित्वादङ् । आसन्ने चात्मनः
काञ्चनं पीठं निरदिक्षत् आदिष्टवान् । दिशे: '२३३६ । शल इगुपधानिटः क्सः
।३॥१।४५ ।' इति क्सः । अथानन्तरं कुम्भकर्णः अस्मेष्ट ईषद्धसितवान् । स
चार्थो येनायमादर इति । अन्तिके चास्य काञ्चनं पीठमध्यास्य पीठे उपाविक्षत्
उपविष्टः । पूर्ववत् क्सः ॥
 
१९९० - अवादीन् 'मां किमित्याहो' राज्ञा च प्रत्यवादि सः ॥
'मा ज्ञासीस् त्वं सुखी, रामो यदेकार्षीत् स रक्षसाम्. ९
अवादीदित्यादि - तत उपविश्य तमवादीदुक्तवान् । '२२६७। वव्रज
-।७।२।३।' इत्यादिना वृद्धिः । किमिति कस्मात् कारणात् मामाह्वः आहूतवान् ।
'२४१८ । लिपिसिचि हृच ।३।१।५३।' इत्यङ् । '२३७२ । आतो लोपः ।६।४।६४ ।
राजा च स कुम्भकर्णः प्रत्यवादि प्रत्युक्तः । कर्मणि लुङ् । '२७५८॥ चिण्
भावकर्मणोः ।३।१।६६ ।' इति चिण् । '२३२९१ । चिणो लुक् ।६।४।१०४ । इति
तलोपः । सुखी त्वं येन रामो रक्षसां यदकार्षीत् तत्त्वं मा ज्ञासीः न ज्ञातवा-
नसि । '२३७७ । यम-रम- ।७।२।७३ ।' इति सगिटौ ॥
 
११९१ - उदतारीदु॑दन्वन्तं पुरं नः परितो ऽरुधत् ॥
 
3
 
व्यद्योतिष्ट रणे शस्त्रैरनैषीद् राक्षसान् क्षयम्. १०
उतारीदित्यादि —स युदन्वन्तं समुद्रमुदतारीत् उत्तीर्णः । '२२९७।
सिचि वृद्धिः - [७।२।११' नो ऽस्माकं पुरं परितः समन्तादरुधत् आवृतवान् ।
९२२६९ । हरितो वा ।३।१।५७ ।' इत्यङ् । रणे शस्त्रैरद्योतिष्ट धोतितवान् । द्युता-