This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'कुम्भकर्ण वधो' नाम पञ्चदशः सर्गः- ३७३
११८४ - केशानं लुञ्चिषुस्, तस्य गजान् गात्रेष्वचित्रमन्, ॥
शीतैर॑भ्यषिच॑स् तोयैर॑लातश चाऽप्य॑दम्भिषुः ॥३॥
केशानित्यादि — तस्य केशानलुञ्चिपुः उत्पाटितवन्तः । गात्रेषु गजानचित्र-
मन् क्रमयन्ति स्म । क्रमेर्मान्तत्वान्मित्संज्ञायां ह्रस्वत्वम् । चडि सन्बद्भावादभ्या-
सस्य '२३१७। सम्यतः ।७१४/७९॥ इति इत्वम् । शीतैस्तोयैरभ्यषिचन् सिञ्चन्ति
स्म । अत्र सिचिरभ्युक्षणे वर्तते । तेनोदकस्य करणत्वम् । '२४१८ । लिपिसिचि
ह्वश्च ।३।१।५३।' इत्यङ् । '२२७६ । ग्राक् सितादङ्व्यवायेऽपि ।८।३।६३।' इति
पत्वम् । अलातैरङ्गारैश्चाप्यदम्भिपुः दग्धवन्तः । अनेकार्थत्वाद्धातूनाम् ॥
 
११८५ - नखैर॑कर्तिषुस् तीक्ष्णैर॑दाङ्ङ्क्षर् दशनैस् तथा ॥
 
शितैर॑तौत्सुः शूलैश् च, भेरीश् चाडवीवदन् शुभाः ४
नखैरित्यादि — तीक्ष्णैर्न खैरकर्तिपुश्छिन्नवन्तः । तथा दशनैतीक्ष्णैरदाङ्क्षुः
दशन्ति स्म । दंशेरनिटो हलन्तलक्षणा वृद्धिः । '२९४ । ब्रश्च - ।८।२।३६ ।' इत्या-
दिना षत्वम् । '२९५ । षढोः कः सि ।८।२।१४।१। । शितैस्तीक्ष्णैः शूलैरतौत्सुः
व्यथयन्ति स्म । तुदेरनिटो हलन्तलक्षणा वृद्धिः । भेरीश्च शुभाः उच्चैः शब्दा
अवीवदन् वादितवन्तः । '२३१३ । सन्वलघुनि - ।७।४।१३।' इति सन्वद्भावाद-
भ्यासस्येत्वं '२३१८ । दीर्घौ लघोः ।७।४।९४ । इति दीर्घत्वम् ॥
 
११८६ - स तान् ना ऽजीगणत् सर्वा-
निच्छया ऽवुद्ध च स्वयम् ॥
 
3
 
अबूबुधत कस्मान् मा-
मंप्राक्षीच् च निशा चरान् ॥ ५ ॥
 
a
 
स तानित्यादि-
इस कुम्भकर्णः तान् सर्वान् उपद्रुतान् नाजीगणत् न गण-
यति स्म । न वेदितवानित्यर्थः । गणेः स्वार्थिकण्यन्तस्यादन्तस्याभ्यासस्य '२५७३ ।
ई च गणः ।७।४।१७।' इतीत्वम् । स्वयं चात्मन इच्छयाबुद्ध बुध्यते स्म ।
'२२८१॥ झलो झलि ।८।२।२६॥ इति सिचो लोपः । निशाचरांश्चाप्राक्षीत् पृष्ट-
चानू । हलन्तलक्षणा वृद्धिः । १२९४ । वश्च - ।८।२।३६।' इत्यादिना षत्वम् ।
'२९५ । षढोः कः सि ।८।२।४।१॥ कस्मान्मामबूबुधत यूयं प्रबोधितवन्तः । बुधे-
र्ण्यन्तस्य मध्यमपुरुषबहुवचने '२३१४ । णौ चड्युपधायाः-१७।४।१।' इति ह्रस्वत्वं
अभ्यासस्य '२३१८ । दीर्घौ लघोः ।७।४।९४ । इति दीर्घत्वम् ॥
११८७ - ते ऽभाषिषत 'राजा त्वां दिदृक्षुः क्षणदा-चर !' ।
 
सोऽस्नासीद्, व्यलिपन्, मांसम॑प्सासीद्, वारुणीम॑पात्
त इत्यादि — ते राक्षसास्तथोक्ताः सन्तः अभाषिषत भाषितवन्तः । हे
क्षणदाचर ! राजा रावणस्त्वां दिक्षुः दृष्टुमेषणशील इति । १६२७॥ न लोक
भ० का० ३२