This page has not been fully proofread.

३७२ भट्टिकाव्ये – चतुर्थे तिङन्त-काण्डे लक्षण-रूपे द्वितीयो वर्गः,
लङ्कां तदा भेजुरु॑दीर्ण- दैन्या,
व्याचख्युरुच्चैश् च हतं प्रहस्तम् ॥ ११३ ॥
 
,
 
यदेत्यादि- क्षणदाचराणां रामबलाभियोगे मनोरथा वाञ्छितानि या न
फेदुः न फलिताः, ग्रहस्तस्य व्यापादितत्वात् । तदा लङ्कां भेजुः सेवितवन्तः ।
उदीर्णदैन्याः उदीर्णं महदैन्यं दीनभावो येषामिति । ग्रहस्तं च हृतं मृतमुच्चैरा-
चख्युः आख्यातवन्तः । रावणायेत्यर्थात् ॥
 
इति श्री जयमङ्गलाऽऽख्यया व्याख्यया समलंकृते श्री भट्टिकाव्ये -
चतुर्थे तिङन्त-काण्डे लक्षण-रूपे प्रथमः परिच्छेदः (वर्गः ),
तथा लक्ष्य रूपे कथानके 'शर-वन्धो' नाम
चतुर्दशः सर्गः ॥ १४ ॥
 
पञ्चदशः सर्गः-
इतःप्रभृति लुङमधिकृत्य तद्विलसितमाह - तत्र भूनसामान्ये लुङ्ग । ततो.
अन्यत्रापि दर्शयिष्यति
 
११८२ - राक्षसेन्द्रस् ततो ऽभैषीदैक्षिष्ट परितः पुरम्, 11
प्रातिष्ठिपच् च बोधार्थ कुम्भकर्णस्य राक्षसान्, १
 
राक्षसेत्यादि- ततः प्रहस्तवधश्रवणानन्तरं 'ईडशोऽपि व्यापादित ः' इति
अभैषीत् । '२४९७ । सिचिवृद्धिः ।७।२।१३।' परितः समन्तात् पुरं लङ्कामैक्षिष्ट
दृष्टवान् । 'किमत्र शक्यते स्थातुं न वा' इति । कुम्भकर्णस्य सुप्तस्य बोधनार्थं
राक्षसान् प्रातिष्ठिपत् प्रस्थापितवान् । तिष्टतेश्च परे गावुपधाहस्खापवादः ।
२५८८ । तिष्ठतेरित् ।७।४।५।' इतीत्वम् । द्विवचनमभ्यासकार्यम् । धातोरादेशः
पत्वं टुत्वं च ॥
१९८३
 
ते ऽभ्यगुर् भवनं तस्य,
सुप्तं चैक्षिषता ऽथ तम् ॥
व्याहार्षुस् तुमुलान् शब्दान्,
दण्डैश् चा ऽवधिपुर् द्रुतम् ॥ २ ॥
 
तेऽभ्यगुरित्यादि- ते राक्षसास्तस्य कुम्भकर्णम्य भवनं गृहं अभ्यगुः गताः ।
(२४५८ । इणो गा- ।२।४।४५॥ इति लुङि गादेशः । '२२२३ । गाति-स्था- ।
२१४१७७१' इति सिचो लुक् । '२२१४ । उस्यपदान्तात् ।६।१।९६ ।' इति पररूप-
त्वम् । ते च सुप्समैक्षिषत दृष्टवन्तः । अथानन्तरं प्रबोधार्थं तुमुलान्महतो
ध्वनीन् व्याहार्षुः व्याहृतवन्तः । '२२६८ । नेटि ।७।२।१॥ इति वृद्धिप्रतिषेधः ।
हदसमुदायपरिग्रहणाद्वृद्धेः प्राप्तत्वात् ॥