This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'शर-बन्धो' नाम चतुर्दशः सर्गः- ३७१
 
११७६–सेहे कपी, रथा॒ऽभ्वा॑श् च रिपोस् ततर्ह शाखिना, ॥
धरित्रीं मुसली तेथे ग्रहस्तश, चिखिदे न च, १०८
 
सेह इत्यादि – कपिनलो बाणान् सेहे लोढवान् स्थानवांश्च रिपोः ग्रह-
स्तस्य शाखिना तरुणा ततर्ह हतवान् । १५४९॥ गृह-हिसि हिंसायाम् ।' हत-
रथाश्वस्य प्रहस्तो मुसली गृहीतमुसलः धरित्रीं तेये गतवान् । '५०८ ५१०।
अय पय' इत्यत्र तयिरनुदात्तेत् । न च चिखिदे खिन्नः । १५४३ । खिद् दैन्ये '
इन्यनुदात्तेत् ॥
 
,
 
११७७ - संदुधुक्षे तयोः, कोपः, परफाये शस्त्र लाघवम्, 11
नुनोद शाखिनं नील, आवत्रे मुसली तरुम् ॥१०९॥
सन्दुधुक्ष इत्यादि —तयोनीलमहस्तयोः कोपः संदुञ्जुले वृद्धिं गतः । अस्त्र-
लाघवमस्त्रकौशलं परफाये वृद्धिं गतम् । नुनोद शाखिनं प्रेरितवान् । मुसली
प्रहस्तः तरुमावत्रे मुसलेनावृतवान् ॥
 
११७८ वियत्या॑नतुर्, भूमौ मण्डलानि विचेरतुः ॥
 
,
 
2
 
प्रदुद्रुवतुर॑न्योन्यं वीरौ, शश्रमतुर् न च ॥ ११० ॥
वियतीत्यादि — वीरौ तौ वियति आकाशे आनम्रतुः गतौ । '५९७।५९८/-
अभ्र-वन' इति गत्यर्थः । वियतोऽधिकरणत्वेन विवक्षितत्वात् द्वितीया न कृता ।
भूमौ च मण्डलानि तिर्यग्भ्रमणानि विचेरतुः आचरितवन्तौ । अन्योन्यं प्रदुद्रु-
वतुः उपतापितवन्तौ । न च शत्रमतुः श्रान्तौ ॥
 
,
 
११७९- समीरयांचकारा ऽथ राक्षसस्य कपिः शिलाम् ॥
क्षतस् तया ममारा ऽसावशिश्राय च भू-तलम् ॥
 
समीरयामित्यादि – अथानन्तरं कपिः राक्षसस्य शिलां समीरयांचकार
क्षिप्तवान् । '१९४७। ईर क्षेपे' इति चौरादिक उदात्तेत् । असौ राक्षसस्तया
शिलया हतः सन् ममार मृतवान् । भूतलं च आशिश्राय आश्रितवान् । पतित
इत्यर्थः ॥
 
११८० - तुतुषुर् वानराः सर्वे, नेशुश् चित्रा निशा - चराः ॥
जेरुरांशा दश स्यस्य, सैन्यं नीलं नुनाव च, ॥११२॥
तुतुषुरित्यादि – वानराः सर्वे तुतुषुः तुष्टाः । निशाचरा नेशुः पलायिताः ।
विचित्रा: नानाप्रकाराः दशास्यस्य आशाः मनोरथा जेरुः जीर्णा: । '२३५६ । वा
जृ-भ्रमु-त्रसाम् ।६।४।१२४।' इत्येत्वम् । सैन्यं च कर्तृ नीलं नुनाव स्तौति स्म ॥
१९८१ - यदा न फेलुः क्षणदा-चराणां
 
मनोरथा राम-बाऽभियोगे, ॥