This page has not been fully proofread.

३७० भट्टि काव्ये - चतुर्थी तिङन्त झण्डे लक्षण-रूपे प्रथनो वर्गः,
१९७१ - ऊर्णुनाव स शस्त्रौषैर् वानराणार्मनीकिनीम् ॥
शशास च बहून्, योधान्, जीवितेन विवेच च ॥
ऊर्जुनावेत्यादि –स सेनानीर्वानराणामनीकिनी: सेनाः शस्त्ररुर्णुनाव
छादितवान् । ऊर्णोतेणु॑वद्भावादिजादेरित्याम् न भवति । शशास च योधान्
१७७७ । शसु हिंसायाम् ।' जीवितेन च विवेच पृथक् कृतवान् । '१५३६) विचिर्
पृथग्भावे' इति रुधादौ स्वरितेत् ॥
 

 
११७२ - आससञ्ज भयं तेषां, दिद्युते च यथा रविः, ॥
 
नाऽऽययास, द्विपद् - देहर् जगाहे च दिशो दश. १०४
आससञ्जेत्यादि- तेषां योधानां युयुत्सूनां भयमाससञ्ज आलग्नम् ।
'१०५६। पञ्ज सङ्गे' इत्यकर्मकः । ग्रहस्तश्च रविरिव दिद्युते द्योतते स्म । '२३४४।
युति - स्वाप्योः सम्प्रसारणम् ।७।४।६७।' इत्यभ्यासस्य सम्प्रसारणम् । नाययास
युध्यमानो नायस्यति स्म । '१२८६ । यसु प्रयत्ने ।' द्विषहैश्च शत्रुकायैः करण-
भूतैः दश दिशो जगाहे अवष्टव्यवान् ॥
 
११७३ - केचित् संचुकुटुर् भीता, लेजिरे ऽन्ये पराजिताः, "
संग्रामाद् बभ्रुशुः केचिद् ययाचुश् चा ऽपरे ऽभयम् ॥
केचिदित्यादि—–केचिद्भीताः सन्तः संचुकुटुः संकुटिताः । निष्प्रयत्नाः स्थिता
इत्यर्थः । '१४५५। कुट कौटिल्ये ।' अन्ये पराजिताः सन्त: लेजिरे भसिताः ग्रह-
स्तेन मृगा इव कातरा यूयमिति । '२४७/२४८ । लज-लाजि भर्त्सने ।' कर्मणि
लिट् । केचित् संग्रामाभ्रशुः पलायिताः । '१३०३ । भृशु- अंशु अधःपतने ।'
अपरे चाभयं ययाचु: याचितवन्तः ॥
 
११७४ - एवं विजिग्ये तां सेनां प्रहस्तो, ऽतिददर्प च ॥
शशाम न च संक्रुद्धो निर्जुगोप निशाचरान् ॥१०६॥
एवमित्यादि – एवमुक्तेन प्रकारेण प्रहस्तस्तां सेनां विजिग्ये जितवान् ।
'२६८५ । विपराभ्यां जेः । १।३।१९। इति तङ् । ' २३३१ । सँल्लिटोर्जेः ।७।३।५७।'
इति कुत्वम् । अतिदुदर्प च सुष्ठु हृष्टवान् । '१२७२। दृप हर्षविमोचनयोः' । न
च शशाम न च शमं गतः । निशाचरान् स्वीयानमात्यान् निर्जुगोप रक्षितवान् ।
आयाभावपक्षे रूपम् ॥
 
"
 
११७५ - चुक्रुधे तत्र नीलेन, तरुश् चौच्चिक्षिपे महान् ॥
प्रहस्तो ऽभिहतस् तेन वाणान् विससृजे बहून्, १०७
चुक्रुध इत्यादि-
[-तत्र तस्मिन् संग्रामे नीलेन चुक्रुधे क्रुद्धम् । भावे लिट् ।
तरुश्चोच्चिक्षिपे उत्क्षिप्तः । कर्मणि लिट् । तेन तरुणा उन्मूलितेनाभिहतः सन्
प्रहस्तो बाणान् विससृजे क्षिप्तवान् । '१२५४ । सृज विसर्गे' इति देवादिको
अनुदात्तेत् ॥