This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'शर वन्धो' नाम चतुर्दशः सर्गः- ३६९
 
सस्यन्द इत्यादि – व्योम कर्तृ शोणितं सत्वन्दे सिञ्चति स्म । सन्दिः
सकर्मकः । रणाङ्गानि खड्डादीनि जज्वलुः ज्वलन्ति स्म । सावाः सहाश्वैः रथाः
ग्रचस्खलुः स्खलन्ति स्म । अश्वकुञ्जरं न ररंह न गतम् ॥
 
११६७ - प्रतोदा जगलुर्, वाममा॑नञ्चुर् यज्ञिया मृगाः ॥
 
ददाल भूः, पुपूरे द्यौः, कपीनाम॑पि निःस्वनैः ॥९९॥
प्रतोदा इत्यादि — प्रतोदा: जगलुः हस्तेभ्यो गलिताः । ५८७ गल अढ़ने'
अनेकार्थत्वात्पतनेऽपि । मृगाः यज्ञियाः यज्ञार्हाः कृष्णसाराः । '१७३५॥ यज्ञ-
विंग्भ्यां घ-खजौ ।५।१।७१।१ । वाममङ्गमानञ्जुः गतवन्तः । '२२४८। अत आदेः ।
७।१।७०।' इति दीर्घः ।'२२८८ । तस्मान्नुङ् दिहलः ।७।४।७१।' भूईदाल विदीर्णा ।
जज्वालेति पाठान्तरं चचालेत्यर्थः । कपिनिःस्वनैद्यौराकाशं पुपूरे पूर्णम् । दिवः
पूरणनिमित्तं यतः कपयो हर्षात्तद्विनाशसूचका एवमाचरन्ति ॥
 
"
 
११६८ - मिमेह रक्तं हस्त्य॒भ्वं, राक्षसाश् च नितिष्ठिवुः ॥
ततः शुशुभतुः सेने, निर्दयं च प्रजहतुः ॥ १०० ॥
मिमेहेत्यादि – हस्त्यश्वं कर्तृ रक्तं मिमेह मूत्रितवदित्यर्थः । '१०६१ । मिह
सेचने ।' राक्षसाश्च स्वरक्तं नितिष्ठिवुः निरस्तवन्तः । ततो दुर्निमित्तादनन्तरं ते
सेने सन्नद्धे शुशुभतुः शोभितवत्यौ । निर्दयं प्रजहूतुः प्रहृतवत्यौ ॥
११६९ - दिद्विषुर्, दुधुवुश, चच्छुरा,
 
चक्कुमु, सुषुपुर्, हताः ॥
चखादिरे चखादुश् च,
 
विलेपुश् च रणे भटाः ॥ १०१ ॥
 
दिद्विपुरित्यादि-रणे भटाः द्विद्विषुः परस्परं द्विष्टवन्तः । १०८२ । द्विष
अप्रीतौ ।' दुधुवुः अभिमुखं गतवन्तः । '१११३ । द्यु अभिगमने ।' चच्छुः
छिन्नवन्तः । १२२१। छो छेदने ।' हताश्चक्कुमुः मूर्च्छा गतवन्तः । सुषुपुः भूमौ
पतिताः । वच्यादिना सम्प्रसारणम् । चखादिरे खादिताः । कर्मणि लिटू ।
चखादुः खादितवन्तः । विलेपुश्च विलापं कृतवन्तः । '२२६०। अत एकहल-
।६।४।१२० ।' इत्येत्वम् ॥
 
१९७० - प्रहस्तस्य पुरो मात्यान् जिहिंसुर्, दधृषुस् तथा ॥
वानराः, कर्म सेनानी रक्षसां चक्षमे न तत् ॥ १०२ ॥
 
-
 
प्रहस्तस्येत्यादि — अमात्यान् सचिवान् ग्रहस्तस्य पुरोऽग्रतः वानरा जिहिं-
सुर्हतवन्तः । तथा दुटषुः परिभूतवन्तः । '१३०५ । जिघृषा प्रागल्भ्ये' । तच्च
कर्म वानरैर्यत्कृतं रक्षसां सेनानीः प्रहस्तः न चक्षमे स्म ॥