This page has not been fully proofread.

३६८ भट्टि काव्ये - चतुर्थे तिघ्न्त काण्डे लक्षण-रूपे प्रथमो वर्गः,
 
समालेभे समालब्धम् । वसे आच्छादितम् । १०९२ । वस आच्छादने ॥
बुभुजे भुक्तम् । पपे पीतम् । भावे लिट् ॥
 
११६१ - जहसे च क्षणं, यानैर् निर्जग्मे योद्धुभिम् ततः ॥
 
विप्रान् प्रहस्त आनर्च, जुहाव च विभावसुम् ९३
जहस इत्यादि - क्षणं जहसे हसितम् । यानैः करणभूतैः निर्जग्मे निर्ग-
तम् । ततः ग्रहस्तः विप्रान् गोसुवर्णादिदानेन आनर्च पूजितवान् । विभावसुं
चाग्निं आज्यादिना जुहाव प्रीणितवान् ॥
 
११६२ - संवर्गयांचकारा ऽऽप्तान्, चन्दनेन लिलेप च ॥
 
चचाम मधु माकं, त्वक्त्रं चाऽऽचकचे वरम्. ९४
संवर्गयामित्यादि – आप्तान् विश्वासिनः संवर्गयांचकार कटकादिप्रदानेन
संवर्गितवान् । संवर्ग करोतीति ण्यन्तस्य रूपम् । चन्दनेन लिलेप समालब्ध-
चान् । मृद्दीका द्राक्षा तस्या विकारः माकं मधु चचाम । त्वक्त्रं च सन्नहनं
वरं श्रेष्ठं आचकचे बद्धवान् । १७७ कड बन्धने' इत्यनुदात्तेत् ॥
११६३ - उष्णीषं मुमुचे चारु, रथं, च जुजुपे शुभम्, ॥
 
आललम्बे महाऽस्त्राणि, गन्तुं प्रववृते ततः ॥ ९५॥
 
-
 
उष्णीष मित्यादि – उष्णीषं शिरस्त्राणं मुमुचे । रथं च जुजुषे । जुपिरनु-
दात्तेत् । महास्त्राणि आललम्बे गृहीतवान् । '४०३ । लवि अवस्रंसने' इत्यनुदा-
तेत् । तत उत्तरकालं गन्तुं प्रववृते प्रवृत्तः ॥
 
११६४ - आजघ्नुस् तूर्य-जातानि, तुष्टुवुश् चा ऽनुजीविनः ॥
 
रजः प्रववृधे घोरं, घोषश् च व्यानशे दिशः ॥ १६ ॥
आजघ्नुरित्यादि- तूर्यजातानि वाद्यसमूहान् आजघ्नुः ताडितवन्तः । तन्नि-
युक्ता इत्यर्थात् । '२६९५ । आङो यमहनः । १।३।२७।' इति तङ् न भवति सक.
र्मकत्वात् । अनुजीविनश्च तुष्टुवुः । 'जय जीव' इति स्तुवन्ति स्म । पदक्षोभाद्-
घोरं रजः प्रववृधे वर्धते स्म । घोषश्च कलकलशब्द: दिशो व्यानशे व्याप्तवान् ॥
१९६५ - तं यान्तं दुद्रुवुर् गृधाः, ऋव्यादश् च सिषेविरे ॥
 
आववुर् वायवो घोराः, खार्दुल्काश् च प्रचक्षरुः ९७
 
तं यान्तमित्यादि-तं प्रहस्तं गृध्राः यान्तं अशुभसूचकाः दुद्रुवुर्गतवन्तः,
ऋव्यादश्च शृगालाः सिषेविरे सेवितवन्तः, वायवो घोराः पांशुग्राहिणः आवदुः
समन्ताद्वान्ति स्म, उल्काश्च तदा तस्मिन् काले प्रचक्षरुः पतिताः । '९०८। क्षर
संचलने' इत्यकर्मकः ॥
 
११६६ - सस्यन्दे शोणितं व्योम, रणाऽङ्गानि प्रजज्वलुः ॥
 
रथाः प्रचस्खलुः साऽश्वा, न, ररंहाऽ-श्वकुञ्जरम्. ९८