This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'शर-बन्धो' नाम चतुर्दशः सर्गः-
युग्मम्-
११५६-प्रहस्तम॑र्थयांचक्रे
 
योद्धुम॑द्भुत-विक्रमम् ॥
'किं विचारण, राजेन्द्र ! युद्धाऽर्था वयमि॑त्यसौ ८८
ग्रहस्तमित्यादि- अद्भुतविक्रमं प्रहस्तं रावणो योद्धुं 'युध्यस्व' इत्यर्थयां
चक्रे प्रार्थितवान् । '२०५१॥ अर्थ उपयाज्ञायाम्' इति चौरादिक आत्मनेपढ़ी ।
वचनात् असा महतः प्रार्थितश्चकाण बभाणेनि वक्ष्यमाणेन संवन्धः । हे राजेन्द्र !
युद्धार्थी वयं युद्धप्रयोजनाः ततश्च किं विचारेणेति ॥
 
1
 
११५७ - चक्काणा शङ्कितो योद्धुर्मुत्सेहे च महा-रथः ॥
 
निर्येमिरे ऽस्य योद्धारश, चक्लृपे चाऽश्व-कुञ्जरम्.८९
चक्काणेत्यादि- - उक्त्वा च स महारथो योद्धा अशङ्कितो निर्भयः सन् योद्धु-
मुत्सेहे उत्साहं कृतवान् । अस्य योद्धारो रावणेन तिर्येमिरे नियमिताः । अनेन
सह एतावद्भिर्योद्धव्यमिति । कर्मणि लिहू । अवकुञ्जरं चक्लृपे सज्जीकृतम् । पशु-
द्वन्द्वैकवद्भावः । '२३५० । कृपो रो लः ।८।२।१८।' ॥
 
११५८ - युयुजुः स्यन्दनान वैरीजुर् देवान् पुरोहिताः ॥
 
आनचुर् ब्राह्मणान् सम्यगाशिषश् चाऽऽशशंसिरे ९०
युयुजुरित्यादि—स्यन्दनान् स्थान् अश्वैर्युयुजः युञ्जन्ति स्म । पुरोहिताः
देवानीजुः पूजितवन्तः । यजादित्वात्सम्प्रसारणम् । ब्राह्मणानानचुः पूजितवन्तः ।
ते च पूजिता आशिषः आशशंसिरे उदितवन्तः । '१०९१॥ आङ: शासु इच्छा-
याम्' अनुदात्तेत् । शास इत्वे आङ् । 'शासोः कावुपसङ्ख्यानम्' इत्याशीः ॥
 
११५९ - ऊहिरे मूर्ध्नि सिद्धार्था, गावश् चाऽऽलेभिरे भटैः, ॥
प्रचुक्ष्णुवुर् महा ऽस्त्राणि, जिज्ञासांचक्रिरे हयान्. ९१
ऊहिर इत्यादि — भटैर्योधैः सिद्धार्थाः सर्षपाः मूर्ध्नि ऊहिरे ऊढाः । गाव-
आलेभिरे स्पृष्टाः कर्मणि लिट्र । महास्त्राणि प्रचुक्ष्णुवुः तेजितवन्तः । यथा
वैर्योद्धुं पार्यत इति । '१११० । क्ष्णु तेजने' । भटाः हयान् जिज्ञासांचक्रिरे
ज्ञातुमिच्छां कृतवन्तः किमेते योद्धुं क्षमा नेति । '२७३१ । ज्ञा-श्रु-स्मृ-दृशां
सनः ।१।३।५७१' इत्यात्मनेपदित्वादनुप्रयोगेऽपि तङ् ॥
 
20
 
युग्मम्-
११६० - ललुः खडान्, ममार्जुश् च ममृजुश् च परश्वधान् ॥
 
'अलंचक्रे, समालेभे ववसे, बुभुजे, पपे, ॥ ९२ ॥
ललुरित्यादि – खड्गान् ललुर्गृहीतवन्तः । ११३२ । ला आदाने ।' ममा-
र्जुश्व विशुद्धान् कृतवन्तः । तथा परश्वधान् ममृजुः परशून् शोषितवन्तः ।
मृजेरजादौ संक्रमे विभाषा वृद्धिः । योद्धुभिर्वक्ष्यमाणैः अलंचक्रे अलंकृतम् ।