This page has not been fully proofread.

भट्टि-काव्ये - प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे प्रथमो वर्गः,
 
८ - अन्तर्-निविष्टोज्वल-रत्न -भासो
गवाक्ष- जालैरभिनिष्पतन्त्यः ॥
हिमा॒ऽद्र - टङ्कादि॑िव भान्ति यस्यां
गङ्गाऽम्वु-पात - प्रतिमा गृहेभ्यः ॥
अन्तरित्यादि – अन्तर्गृहमध्ये निविष्टानि निहितान्युज्वलरखानि यानि
तेषां भासो रइमयो गृहेभ्यो गवाक्षजालैरभिनिष्पतन्त्यो निर्गच्छन्त्यो यस्यां
भान्ति तामध्यास्तेति योज्यम् । पर्वतस्योन्नतप्रदेशष्टङ्क इत्युच्यते । तस्माद्धिम
वत्पर्वतङ्गादिव गङ्गाम्बुपातप्रतिमा गङ्गाजलप्रवाहतुल्या: स्वच्छत्वात् ॥
 
९ - धर्म्यास कामा॒ऽर्थ - यशस्-करीषु
मतासु लोकेऽधिगतासु काले ॥
विधासु विद्वानिवँ सोऽमिरेमे
पत्तीषु राजा तिसृत्तमासु ॥
 
धर्म्यास्वित्यादि – धर्मादनपेतासु । '१६४४॥ धर्म-पध्यर्थ - ।४।४।१२।'
इत्यादिना यत् । कामार्थयशांसि कर्तुं शीलं यासां तासु । ' २९३४ । कृजो हेतु-
।३।२।२०।' इत्यादिना ताच्छील्ये टः । १६० । अतः कृ कामे - । ८।३।४६ ।' इत्या-
दिना विसर्जनीयस्य सत्वम् । टित्त्वान्डीप् । मतासु पूजितासु लोके तासां प्रती-
तत्वात् । अधिगतासु काले विवाहयोग्ये काले परिणीतासु । सोऽभिरेमे स
राजाभिरतवान् । पत्नीपु '४९० । पत्युनों यज्ञसंयोगे ।४।१।३३ । इति नकारः ।
तिसृषु कौसल्याकैकेयीसुमित्रासु । उत्तमास्विति सन्नारीगुणैः श्रेष्ठासु । विद्यास्त्रिति
विदन्त्याभिर्धर्माधर्माविति विद्याः । '३२७६ । संज्ञायां समज - ।३।३।९९।' इत्या.
दिना क्यप् । तिसृषु सामर्ग्यजुराख्यासु । धर्म्यास्वित्यादिकं तुल्यम् । विद्वानिव ।
यथाधिगतविद्य इत्यर्थः । '३१०५ । विदेः शतुर्वसुः ।७।१।३६।' दीर्घ हलढ्या-
दि-संयोगान्तलोपाः ॥
 
तस्य राज्ञः पत्नीभिस्ताभिः सह रममाणस्य सुवा नैवासन् । ऋष्यशृङ्गनामा
मुनिः पुत्रीयं क्रतुं जानातीति पुरोधसो वसिष्ठादुपश्रुत्य राज्ञा वारविलासिनी-
भिरानायितो मुनिरित्येतत्कथयितुमाह-
१ - १६४४१ धर्म-पर्थ्यर्थ
न्यायाद॑नपेते ।४।४।१२। धर्मादनपेतं धर्म्यम् । पथ्यम्
अर्थ्यम् । न्याय्यम् ।' इति वै० भ० ॥ २ – 'इच्छा काङ्क्षा स्पृहेहा तृड् वान्छा लिप्सां
मनोरथः ॥ २२८ । कामोऽभिलाषस तर्षश् च - ' इति ना० अ० ॥ ३ – अत्रोपमालङ्कारः
तल्लक्षणं कुवलयानन्दकारिकायाम् । 'उपमा यत्र सादृश्यलक्ष्मीरुल्लसति द्वयोः ।
हंसीव कृष्ण ते कीर्तिः स्वर्गङ्गाम् ( स्वर्ग गाम् ) अवगाहते ॥ ४ - अत्रोपजातिच्छन्दः
तलक्षणं पूर्वो( २ )क्तम् ।