This page has not been fully proofread.

३६६ भट्टि-काव्ये—- चतुर्थे तिङन्त-काण्डे लक्षण-रूपे प्रथम वर्गः,
११५२ - खर्मूयुर्, वसुधार्मूवुः सायका रज्जु-वत् तताः ॥
तस्माद् बलैरपत्रेपे, पुप्रोथा ऽस्मै न कश्चन ॥८४॥
खमित्यादि – तेन सायका रजुवत्तता विस्तृताः सन्तः खमाकाशमयुराव-
तवन्तः । वसुधां च ऊबुझ्छादितवन्तः । '१०७५ । वेञ् तन्तुसन्ताने' तम्य लिटि
वाहरादेशः । '२४१४ । वश्चास्यान्यतरस्याम्- । ६ । १।३९।' इति यकारत्य वकारा
देशः । तस्मादिति तमकम्पनं वीक्ष्य । ल्यब्लोपे पञ्चमी । त्रेपे लज्जितम् । भावे
लिट् । '२३७१॥ तृ-फल-१६।१।१२२ ।' इत्यादिना एत्वाभ्यासलोपौ । अस्मै अक-
अपनाय न कश्चित् पुप्रोथ न प्रभवति स्म । '९२६ । प्रोथ पर्याप्तौ' इति स्वरितेत् ।
अत्र कर्तुः क्रियाफलायोगान्त्रात्मनेपदम् । '५८२ । नमः स्वस्ति । २।३।१६। इत्यत्र
अलंशब्दस्य पर्याप्त्यर्थग्रहणात् तदर्थयोगे चतुर्थी ॥
 
११५३ - स भस्म - साच् चकाराडरीन्,
 
,
 
दुदाव च कृतान्त-वत् ॥
चुक्रोध मारुतिस्, ताल-
मुच्चने च महा-शिखम् ॥ ८५ ॥
 
--
 
स भस्मसादित्यादि – सोऽकम्पनः अरीन् भस्मसाञ्चकार कार्येन भस
भूतान् कृतवान् । यम इव दुगाव सुष्ठु पीडितवान् । 'टुदु उपतापे ।' तं दृष्ट्वा
मारुतिश्चक्रोध क्रुद्धः ः । तालं च वृक्षं महाशिख मत्युच्छ्रायं उच्चग्ने उत्खातवान् ।
अत्र क्रियाफल्योगात् तङ् ॥
 
११५४ - यमाया Sकम्पनं तेन निरुवाप महा पशुम् ॥
 
बज्ज निहते तस्मिन् शोको रावणम॑ग्निवत् ॥८६॥
 
यमायेत्यादि – तेन तालेन स चाकम्पनं महापशुमिव यमाय निरुवाप
दत्तवान् । निष्पूर्वी वपिने वर्तते । तत्र धातोर्यजादित्वात् सम्प्रसारणं न भवति
अकित्वात् । अभ्यासस्य लिटि भवत्येव । तस्मिन्निहते शोको झिरिव रावणं
बभ्रुज्ज दुग्धवान् ॥
 
११५५ - स विष, प्रचुक्षोद, दन्तैरोष्ठं चखाद च ॥
 
प्रगोपायांचकारा ऽऽशु यत्नेन परितः पुरम् ॥८७॥
 
स बिभ्रेषेत्यादि- - स राजा विशेष चलितः । 'भ्रेषू चलने' स्वरितेत् । प्रचु-
शोद क्रोधाोष्टादीन् चूर्णितवान् । ओष्ठं च दन्तैश्वखाद दष्टवान् । पुरं लङ्कां
• समन्तात् यत्नेन प्रयोपायांचकार रक्षितवान् । '४२३ । गुप् रक्षणे' इत्युदात्तेत् ।
आयत्ययान्तरबादाम् ॥