This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'शर-बन्धो' नाम चतुर्दशः सर्गः-
5
 
परस्मैपदम् । परान् शत्रून् शौर्यगुणयुक्ताः प्रयोजकाः भीषयांचक्रिरे भीषयन्ते
स्म । अत्र '२५९४। भी स्म्योर्हेतुभये ।१।३।६८ । इति तङ् अनुप्रयोगेऽपि ॥
११४७ – रक्तं प्रचुश्रुतुः क्षुण्णाः, शिश्वियुर् वाण-विक्षताः ॥
अस्यतां शुशुवुर् वाणान् भुजाः साऽङ्गुष्ठ मुष्टयः.७९
रक्तमित्यादि – केचित् क्षुण्णाः खण्डिताः सन्तो रक्तं प्रचुचुतुः प्रक्षरिताः,
केचित् शिश्वियुः । '२४२० । विभाषा वेः ।६॥।३०।' इत्यसम्प्रसारणपक्षै रूपम् ।
वाणानस्यतां क्षिप्यतां योधानां भुजाः साङ्गुष्टमुष्टय अङ्गुष्टमुष्टिसहिताः शरवि-
क्षताः शरभिन्नाः शुशुवुः गताः । गत्यर्थे द्रष्टव्यम् । सम्प्रसारणपक्षे रूपम् ॥
 
3
 
११४८ - रणे चिक्रीड धूम्राक्षस्, तं ततर्जाऽनिलाऽऽत्मजः ॥
आददे च शिलां, सऽश्वं पिपेषाऽस्य रथं तया ८०
रण इत्यादि – धूम्राक्षो रणे चिक्रीड क्रीडति स्म, तमनिलात्मजो हनूमान्
ततर्ज भर्त्सितवान्, शिलामादढे च गृहीतवान्, तया शिलया अस्य धूत्राक्षस्य
सावं रथं पिपेष चूर्णितवान् ॥
 
११४९ - पपात राक्षसो भूमौ रराट च भयंकरम् ॥
 
3
 
.
 
तुतोद गदया चाsरिं, तं दुधावा ऽद्रिणा कपिः ॥
पपातेत्यादि — राक्षसो धूम्राक्षो भूमौ पपात, पतितः सन् भयंकरं रराट
रटितवान्, ततोऽरिं हनूमन्तं गढ़या तुतोद आहतवान्, तं राक्षसं स कपिः
अद्विणा दुधाव व्यापादितवान् ॥
 
११५० - अकम्पनस् ततो योद्धुं चकमे रावणाऽज्ञया ।
 
स रथेना ऽभिदुद्राव, जुघुरे चाऽतिभैरवम् ॥ ८२॥
अकम्पन इत्यादि — ततो धूम्राक्षविनाशानन्तरं अकम्पनो राक्षसः रावणा-
ऽज्ञया युध्यस्वेति योद्धुं चमके इष्टवान् । '२३०५ । आयादय आर्धधातुके वा
।३।१।३१।' इति णिङभावपक्षे रूपम् । सो ऽकम्पनः रथेनाभिदुद्भाव अभिमुखं
गतः, च शब्दं कृतवान्, अतिभैरवं अतिभयानकम् । जुघुरे । 'धुर भीमार्थश-
ब्दयोः' इत्यनुदात्तेत् ॥
 
१९५१ - पस्पन्दे तस्य वामाऽक्षि,
 
सस्यमुश् चाऽशिवाः खगाः ॥
तानू वत्राजा ऽवमत्या ऽसौ,
बभासे च रणे शरैः ॥ ८३ ॥
 
1
 
पस्पन्द इत्यादि — तस्याकम्पनस्यानिमित्तत्वसूचकं वामाक्षि पस्पन्दे स्पन्दि-
तम्, अशिवाश्च अशिवसूचकाः खगाः सस्यमुः शब्दं कृतवन्तः । अनेत्वपक्षे रूपम् ।
तान् खगान् अवमत्यावज्ञायासौ वनाज गतः, रणे शरैश्च बभासे शोभितम् ॥