2023-02-15 17:22:47 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य-रूपे कथानके 'शर-वन्धो' नाम चतुर्दशः सर्गः-
११३७ - संपस्पर्शा ऽथ काकुत्स्थौ, जज्ञाते तौ गत-व्यथौ ॥
तयोरात्मानमा॑चख्यौ, ययौ चा ऽथ यथा - गतम्. ६९
-
संपस्पशैत्यादि – अनन्तरं गरुत्मान् काकुत्स्थौ राघवौ संपस्पर्श स्पृष्टवान्,
तौ च स्पृष्टौ गतब्यथौ जज्ञाते जातो, तयोः काकुत्स्थयोरात्मानमाचख्यौ गरु-
स्मानहमिति कथितवान् । '२४३७ । वा लिटि ।२।४।१५॥ इति चक्षिङः ख्याज् ।
ययौ चापि यथागतं यथा तेनागतं तथा गतवान् ॥
११३८ - स्वेनुस्, तित्विषुरुद्येमुरुच्चख्नुः पर्वतांस् तरून्, ॥
A
वानरा दद्रमुश् चा ऽथ संग्रामं चाऽऽशशाशिरे ७०
स्वेनुरित्यादि – अथानन्तरं वानराः हृष्टाः स्वेनुः शब्दितवन्तः, तित्विषुः,
शोभिताः, 'त्विप दीप्तौ ।' उद्येमुः उद्योगं चक्रुः, पर्वतानुञ्चख्नुः उत्क्षिप्तवन्तः,
दनमुः इतस्ततो भ्रान्ताः । 'हम हंम मीट गतौ ।' संग्रामं च आशशाशिरे
अभीष्टवन्तः । 'आङः शासु इच्छायाम्' आदादिकोऽनुदात्तेत् ॥
११३९ - डुढौकिरे पुनर् लङ्कां, बुबुधे तान् दशाननः ॥
जीवतश् च विवेदा डरीन्, वभ्रंशेऽसौ धृतेस्ततः.७१
डुढौकिर इत्यादि - पुनर्भूयो लङ्का डुढौकिरे जग्मुः, तान् वानरान्
ढौकितान् दशाननो बुबुधे बुद्धवान्, जीवतश्चारीन् रामादीन् विवेद ज्ञातवान् ।
अन्यथा कथं वानरा ढौकिताः । ततश्च वृतेः सकाशाद्वअंशे भ्रष्टः ॥
-
११४० - सस्रंसे शर बन्धेन दिव्येने॑ति बुबुन्द सः, ॥
बभाजा ऽथ परं मोहमूहांचक्रे जयं न च ॥७२॥
सस्रंस इत्यादि — दिव्येन शरबन्धेन सस्रंसे त्रस्तम् । भावे लिट् । इत्येवं
दशाननो बुबुन्द श्रुतवान् । 'बुदि निशामने ।' अथानन्तरं महामोहं मूर्च्छा-
कारं बभाज सेवते स्म । न जयमूहांचक्रे वितर्कितवान् ॥
११४१ - धूम्राक्षो ऽथ प्रतिष्ठासांच रावण-संमतः ॥
सिंहा॒ऽऽस्यैर् युयुजे तस्य वृकऽऽस्यैश् च रथः खगैः ॥
धूम्राक्ष इत्यादि – अथ धूम्राक्षो रावणसंमतो रावणेनानुज्ञातः सन् ।
भूते निष्ठात्र द्रष्टव्या । प्रतिष्ठासांचक्रे गन्तुमिच्छां कृतवान् । प्रपूर्वात्तिष्ठतेः
'२६८९ । समवप्रविभ्यः स्थः ।१।३।१२।' इति तङ् । '२२७० । उपसर्गात्
।८।३।६५।' इत्यादिना षत्वम् । तस्य च गन्तुमिच्छतो रथः खगैः आकाशगामि-
भिर्यानैः सिंहमुखैर्वृकमुखैश्च युयुजे युक्तः । कर्मणि लिट् ॥
स्-त्रैः संविव्ययुर् देहान्, वाहनान्य॑धिशिरियरे, ॥
आनर्जुर् नृ-भुजोऽस्त्राणि, क्वञ्जुश् चाऽऽहव- क्षितिम्-
.
११४२-त्वक्-त्रः