This page has not been fully proofread.

३६२ भट्टि काव्ये – चतुर्थे तिङन्त-काण्डे लक्षण-रूपे प्रथमो वर्गः,
११३२ - आदिदेश स किष्किन्धां राघवौ नेतुर्मङ्गदम् ॥
प्रतिजज्ञे स्वयं चैव सुग्रीवो रक्षसां वधम् ॥ ६४ ॥
आदिदेशेत्यादि-सुग्रीवो राघवौ किष्किन्धां नेतुङदमादिदेश, स्वयं
च रक्षसां विनाशं प्रतिजज्ञे अहमेव व्यापाढ्यामीति । ८२७१९ । संप्रतिभ्याम्-
।१।३।४६।' इति तङ् । सकर्मकार्थं वचनम् ॥
 
११३३ - 'नागा॒ऽस्त्रमि॑दमे॒तस्य॒ विपक्षस् तार्क्ष्य-संस्मृतिः ॥
विभीषणादिति श्रुत्वा तं निदध्यौ रघूत्तमः ॥६५॥
नागास्त्रमित्यादि – नागास्त्रमिदं न शराः, एतस्य च विपक्षः शत्रुस्तार्क्ष्य.
संस्मृतिः गरुडसंस्मरणं यत्संस्मरणादेवास्य शान्तिरिति । एवं विभीषणाच्छ्रुत्वा
रघूत्तमो राघवस्तार्क्ष्य ध्यौ ध्यातवान् ॥
११३४ - ततो विजघटे शैलैरुद्वेलं पुष्टुवे ऽम्बुधिः ॥
 
वृक्षेभ्यश् चुच्युते पुष्पैर्, विरेजुर्भासुरा दिशः ६६
 
-
 
तत इत्यादि -- ततो ध्यानानन्तरं तदागमनवायुवेगाच्छैलेर्विजघटे विघ
टितम् । भावे लिट् । अम्बुधिरुलं वेलामतिक्रम्य पुलवे गतः, वृक्षेभ्यः सका.
शात पुष्पैश्रुच्युते च्युतम्, दिशश्च भासुराः सुपर्णपक्षप्रभाभिः प्रभासनशीलाः
सत्यो विरेजुः शोभन्ते स्म । '२३५४ । फणां च सप्तानाम् ।६।४।१२५।' इत्येत्व-
पक्षे रूपम् । तत्र वेत्यनुवर्तते ॥
 

 
११३५ - जगाहिरे ऽम्बुधिं नागा, चवौ वायुर् मनो-रमः ॥
तेजांसि शंशमांचक्रुः, शर-वन्धा विशिश्लिषुः ॥६७॥
जगाहिरे इत्यादि – नागा भयादम्बुधिं जगाहिरे प्रविष्टाः, वायुस्तत्प्रभवो
वचौ वाति स्म, तेजांसि रत्नादीनां शंशमांचक्रुः अत्यर्थं प्रशान्तानि । शमेर्यङ्लु-
गन्तस्य रूपम् । एवं च कृत्वा अनुप्रयोगे परस्मैपदम् । शरबन्धा विशिश्लिपु-
विश्लिष्टाः दूरत एव तत्प्रभावात् ॥
 
A
 
११३६ - जिरे ऽक्षत - चद् योधा, लेभे संज्ञां च लक्ष्मणः ॥
विभीषणो ऽपि बभ्राजे, गरुत्मान् प्राप चा ऽन्तिकम् ॥
 
भ्रेजिर इत्यादि-अक्षतवत् अक्षता इव योधा ब्रेजिरे दीप्यन्ते स्म ।
'२३५४ । फणां च सप्तानाम् ॥६।४।१२५॥ इत्येत्वपक्षे रूपम् । संज्ञां चेतनां
लक्ष्मणो लेभे प्राप्तवान्, विभीषणोऽपि बभ्राजे संपन्ना मे मनोरथा इति ।
अनेस्वपक्षे रूपम् । अन्तिकं च रामलक्ष्मणयोर्गरुत्मान् प्राप । गरुतः पक्षिण-
'स्तेऽनुजीवितयास्य सन्तीति मतुप् । यवादेराकृतिगणत्वात् '१८९८ । झयः ।
२।१०।' इति वत्वं न भवति ॥